________________ 110 श्री हंसविजयविरचिते चतुर्थी आदाननिक्षेपा समितिरयं वस्त्र-पात्रादि-प्रमार्जनादि-शुद्धिं करोति / 4 / पञ्चमी पारिष्ठापनिका समितिरियं तु मल-मूत्रादि-परिष्ठापना-यतनां शिक्षयति / 5 / षष्ठी मनोगप्तिरियं मनः सुरक्षितं स्थिरं च करोति / 6 / सप्तमी वाग्गुप्तिरियं सावधवाग्निषेधं करोति / 7 / अष्टमी कायगुप्तिरियमसंवृताङ्गोपाङ्गचेष्टा निषिध्यति // 8 // इत्येता अष्टप्रवचनमातरो जैनपुराधिष्ठात्र्यः तदर्चयैतास्त्वमपीति / / ततो मया यथाविधि-पूजिता-स्तास्तदनन्तरमुत्कट-वीर्यरूप-कुण्डे धर्मध्यानरूपवह्निं प्रज्वाल्य तेजः-पद्मशुक्ललेश्यारूप कुलस्त्रीभिर्विहित-स्नानाऽङ्गरागादि संस्कारः। पुनस्ताभिरेव तथाऽशेषैर्धर्मसैनिकैर्विविधं भूषितः, तदेवं कृतसंस्कारं मां कुण्डाऽन्तिके निवेश्य सद्बोधः स्वयं पुरोहितीभूय कर्मेन्धनक्षेपात् प्रदीप्ते धर्मध्यानाग्नौ भावना-दीभिः कुंवासना-रूप-यव-तिलाद्याहुति-द्रव्याणि जुहाव / ततः सदागम- सांवत्सरोद्दिष्टे वृषभलग्नांशे क्षान्तिकन्यायाः पाणिग्रहं कारितोऽहम् / ततो हृष्टाः शुभपरिणामादयः, प्रमुदिता निष्प्रकम्पतादयः, भ्रांतानि च मण्डलानि, एवं च क्रमेण तत्रैव लग्ने शेषा अप्यष्टौ दयादिकन्या: परिणीता मया / निविष्टश्चाङ्गनाभिः सह निजवीर्यनामनिविष्टरे, प्रमुदिताचारित्रधर्मादयः / अथ यद्यपि विद्या-पाणिग्रहणमात्रादेव महामोहो लीन एवाऽभूत् / तथापि क्षान्त्यादि-पाणिग्रहणानन्तरं तु ससैन्य: सपापोदयोऽसौ लीनतरतां प्राप्तः / किञ्च तासां कन्यानामाश्लेष-सुखानुभव-सञ्जातस्वसंवित्ति-परमसुखप्राप्ति-द्वारेण मया तदा श्री गुरुवचः सत्यं मेने / __ अथाऽन्यदा श्री निर्मलसूरि-केवलिनः समागतः, वन्दनार्थं गतोऽहम्, देशनां श्रुत्वा व्रताभ्यर्थना मया कृता / गुरुभिरूचे- "राजन् ! यद्यपि क्षमादिपाणिग्रहणानन्तरं भावतस्त्वं साधुरेवाऽसि, तथापि लोके व्यवहार एव बलवानिति साम्प्रतं द्रव्य-दीक्षा दीयते" इति / ततः स्वसूनवे राज्यं दत्त्वा, सप्तक्षेत्र्यां वित्तमुत्वा, मदनमञ्जरी-कुलन्धरादिबहुभव्यजनान्वितेन मया श्री निर्मलसरिकेवलि-समीपे दीक्षा दीयते स्म / ततः क्रमेणैकादशाङ्गान्यधीत्य यथाविधि संयमं प्रापाल्याऽन्ते संलेखनां कृत्वा तद्भववेद्यगुटिकाक्षये पुनरन्यगुटिका प्रयोगेण गतोऽहं प्रथमग्रैवेयके / तत्र त्रयोविंशति-सागराणि यावत् सुखमनुभूयाऽऽयु:-क्षये च्युत्वा सिंहपुरे महेन्द्रनृपस्य वीणाराश्याः पुत्रत्वेनोत्पन्नः, तारुण्ये जातिस्मृतिवशात् सुघोषा-चार्यान्तिके दीक्षामादाय यथाविधि पालयित्वा द्वितीय-ग्रैवेयके देवो जातः / इत्थं पंच कृत्वा ग्रैवेयकेषु गमनागमनानि कृत्वा तदनंतरं धातकीखंडस्य भरतक्षेत्रे शंखनाभिपुरे महागिरिनृपस्य भद्राराज्याः पुत्रत्वेनोत्पन्नः कृतं च सिंह इति मन्नाम, यौवने धर्मबन्धुसूरिदेशनया संयमं प्रपन्नस्तत्र स्वल्पेनैव कालेन मया चतुर्दशाऽपि पूर्वाणि