________________ 108 श्री हंसविजयविरचिते तथा यदा भवजन्तुरेता दश कन्याः परिणयति, तदैव चारित्रधर्मसैन्यं प्रबलीभवति, मोहसैन्यं च क्षीयते / किञ्च कर्मपरिणामोऽप्यनेनैवोपायेनाऽनुकूलो भवति / " इत्याद्याकर्ण्य पुनः कन्दमुनिना पृष्टं- "स्वामिन् ! एताः कन्या गुणधारणनृपः कियता कालेन परिणेष्यतीति?" गुरुराह- "षड्-मासान्ते ता: परिणेष्यतीति" श्रुत्वा मयोक्तं"भगवन् ! अहं त्वद्यैव संयमं गृहीतुकामोऽस्मि, तद्भवद्भिः किमेतावान् कालविलम्ब: कथ्यते?" केवल्याह- "राजन् ! अनन्तशस्त्वया पूर्वं द्रव्यलिङ्गानि गृहीतानि विमुक्तानि च परं न तेभ्योऽर्थसिद्धिरभूत्, ततोऽस्मदुक्तमार्गेण सम्प्रति गुणाभ्यासं विधेहि, ततो योग्यतां वीक्ष्य चारित्रधर्मामात्यः सद्बोधः स्वयमेव विद्याकन्यां ते परिणायिष्यति, ततः सर्वतत्त्वपरिज्ञानाद् भावविशुद्धौ सत्यां सर्वा अपि कन्या मिलिष्यन्ति अतोऽधुना काल-. विलम्ब एव ते श्रेयस्कर'' इति तद्गुरुवचः प्रमाणमिति कृत्वा वन्दित्वा च सपरिकरोऽहं गृहमायातः / विद्याकन्यया सह लग्नः, धर्मदृढता अथाऽहं गुरूपदिष्टमार्गेण गुणाऽभ्यासं कुर्वन् अस्मि, गतानि कानिचिद् दिनानि, अन्यदा रात्रिशेषे यावदहं गुरूक्तदेशनां सम्यग् विचारयन्नस्मि तावत् सद्बोधाऽमात्यः / समागत्याऽऽस्तिक्य-तत्त्वावगम-संवेगोपशमाद्यनेक-सौन्दर्यकलितां विद्यानाम्नी कन्यां मां पर्यणापयत्, ततः प्रभाते गुर्वन्तिके गत्वा गुरुं नत्वा धर्मदेशनां यावदाकर्णयामि, तावद् गुरुभिरूचे- "राजन् ! गतेऽह्नि कर्मपरिणामाद्यानुकूल्यात् त्वं विद्याकन्यां परिणीतवान्।" मयोक्तं "-सत्यमेतत् स्वामिन् ! भवत्-प्रसाद एवाऽत्र निदानं" ततः केवल्याह- "राजन् ! आकर्णयाऽस्य व्यतिकरं विद्यामादाय यावत् त्वदन्तिकमागच्छता सद्बोधेन सहान्तराले ज्ञानावरणनृपेण महायुद्धं कृतं, ततः पराजितेन तेन मोहराजस्य पुरो बुम्बा दत्ता, ततः क्रुद्धो मोहराजः सैन्यमादाय यावत्त्वदन्तिकमायाति तावत् कर्मपरिणामानुकूल्यात् प्रवृद्धौजसा चारित्रधर्मेणाऽन्तरा निपत्य मथितं समस्तमपि मोहसैन्यं, कृताश्च प्रहार-जर्जरा राग-द्वेष-पापोदयादयस्तद्भटास्ततो निर्विनेन त्वया विद्या परिणीता, इदानीं ते मोहराजादयः सर्वेऽपि जीवितमात्रशेषाः कान्दिशीकाः प्रलाय्य क्वापि निलीय स्थिताः सन्ति / तथापि छिद्रान्वेषिणस्ते दुर्जनाः किमप्यन्तरालं प्राप्य त्वामुपद्रोतुमागमिष्यन्ति, परं ते त्वया सद्बोधवचसा चारित्रधर्मसैनिकान् पुरस्कृत्य विध्वंसितव्या" इत्येवमादिशिक्षामवधार्य देशनान्ते गुरुन् नत्वा गृहमागतोऽहम् / अथैवं मां धर्मे दृढीकृत्य पूर्णे मासकल्पे निर्मलसूरि-केवलिनोऽन्यत्र विजह्नः /