________________ दर्भावतीमंडनपरमप्रभावकश्रीलोढणपार्श्वनाथाय नमः / ... न्याविशारदन्यायाचार्यमहोपाध्याय श्रीमद्यशोविजयविरचितो विषयतावादः। // ऐं नमः // *विषयता स्वरूप सम्बन्धविशेषो ज्ञानादीनां विषये, न त्वतिरिक्ता / मानाभावादिति प्राञ्चः / तदसत् , तथाहि-विषयताया ज्ञानस्वरूपत्वे घटवद्भूतलमित्यादि ज्ञाननिरूपितानां घटभूतलादिवृत्तिविषयतानामभेदापत्या तादृशज्ञानानन्तरं घटप्रकारकज्ञानवानहमित्यादि प्रतीतिवद् भूतलप्रकारकज्ञानवानहमित्यादिप्रतीतिप्रसङ्गः; घटनिष्ठप्रकारत्वाख्यतद्ज्ञानरूपविषयताया एव भूतलवृत्तित्वात् / एवं घटपटावित्यादिसमूहालम्बनधियो भ्रमत्वापत्तिः, पटनिष्ठतद्ज्ञानरूपविशेष्यतायास्तद् ज्ञानरूपिघटत्वप्रकारतानिरूपितघटविशेष्यताऽभिन्नत्वेन तादृशज्ञानस्य घटत्वप्रकारतानिरूपितपटविशेष्यताशालित्वात् / विषयस्वरूपत्वे च [ घटवद्भूतलम् ] घटभूतलसंयोगा इत्याद्याकारकसमूहालम्बनविशिष्टबुद्धयो वि [ 1 ] लक्षण्यानुपपत्तेः / न च विशिष्टज्ञाने सम्बन्धसम्बन्धोऽपि भासते न तु समूहालम्बने इत्यत एव तयोर्वैलक्षण्यमुपपत्त्यत इति वाच्यं, सम्बन्धसम्बन्धमादायाऽपि समूहालम्बनसम्भवात् / तस्माद् ज्ञानविषयाभ्यामतिरिक्तमेव विषयत्वमित्यनन्यगत्या स्वीकरणीयम् / तच्चाश्रयतया विषये ज्ञाने च निरूपकतासम्बन्धेन वर्तत इति / एतेन विषयित्वमपि व्याख्यातम् / ___ न च विषयताप्रतियोगित्वमेव विषयित्वमस्तु किं तस्यातिरिक्तत्वस्वीकारेणेति वाच्यं, विषयित्वमेवातिरिक्तं तत्प्रतियोगित्वमेव विषयत्वमित्यस्यापि वक्तुं शक्यत्वात् , तस्माद्विनिगमनाविरहेणोभयमेवातिरिक्तं / विषयत्वादिकं तु विषयभेदेन भिद्यतेऽन्यथा घटवर्भूतलमित्यादिज्ञानीयघटभूतलादिविषयतानां घटपटावित्यादिविषयतानां चाभेदप्रसङ्गेन पूर्वोक्तानुपपत्तितादवस्थ्यात् , न तु ज्ञानव्यक्तिभेदेनापि तद्भेदो मानाभावात् / तच्च द्विविध-किंचिद्विषयत्वानिरूपितं तन्निरूपितं च, तत्र निर्विकल्पकनिरूपितविषयता विषयत्वानिरूपिता निर्विकल्पकीयघटत्वादिविषयताया घटादिविषयतानिरूपितत्वे मानाभावात् / * आद्य भंगलाचरण मास्ति /