________________ आत्मख्यातिः द्रव्यवत्त्वरूपावयवित्वेन स्वसमवायिनिष्ठगुरुत्वात्यन्तापकृष्टगुरुत्वत्वावच्छिन्नं प्रति हेतुत्वे गुरुत्वेनवा स्वात्यन्तापकृष्टगुरुत्वत्वावच्छिन्नं प्रत्येवासमवायिकारणत्वे द्वयणुकाद्यन्तावयविपर्यन्तेष्वत्यन्तापकृष्टगुरुत्वस्यैवापत्तेः। तथेष्टापत्तावपि तृणादिसमुदायगुरुत्वेनेवावयविसमुदायगुरुत्वेन तुलादाववनतिविशेषस्य दुर्वारत्वाच्च / अवयविन्यवनतिस्वरूपायोग्यमेव गुरुत्वमित्यत्र तु मानाभावः / / अस्तु तर्हि परमाणावेव गुरुत्वं व्यणुकादेरधःसंयोगस्तु गुरुत्वसापेक्षपातजन्यावयववेगजवेगाधीनक्रियया, पातव्यवहारस्तु वर्त्तिस्थदीपपातव्यवहारवद्गौण इति वाच्यम् , कर्ममात्रं न वेगजनकं मन्दकर्मणोऽपि वेगापत्तेः, किन्तु नोदनाभिघाताद्यपेक्षमिति भाष्योक्ते!दनाभिधातसापेक्षाया एव क्रियाया वेगजनकत्वोपगमेन गुरुत्वसापेक्षायाः क्रियाया अतथात्वात् , अन्यथा गुरुत्वादेवोत्तरोत्तरकर्मसन्तानसंभवाद्वेगोच्छेदापत्तेः, अथ नोदनाभिधातसापेक्षत्वं कर्मण उत्कर्षोपलक्षणं तथा• च गुरुत्वसापेक्षाया अप्युत्कृष्टक्रियाया वेगजनकत्वमविरुद्धम् / युक्तं चैतत् , अधःसंयोगत्य क्वचिदभिघातात्मकस्य विना वेगमसंभवात् , वेगेन पततीत्यादिव्यवहाराच्च। न चैवं महावयविपाते बहुविलम्बः मिथो विश्र[ष्ट ?]ब्धावयवानां विष्टम्भाधीनक्रियाजन्यवेगेनान्त्यावयविनि द्रुतवेग[गा ?]संभवादिति वाच्यम् , वेगजनकतावच्छेदकोत्कर्षस्य तज्जन्यतावच्छेदकाप्रकर्षेण समं सांकर्यात् , चरमादिमक्रिययोरकै काभावान्मध्यमासु चोभयसत्त्वात् / उत्कृष्टक्रियात्वेन वेगजनकताया वक्तुमशक्यत्वात् / समवायेन तद्वेगेन तत्तक्रियात्वेन वेगजवेगे च स्वसमवायिसमवेतत्वेन वेगत्वेन हेतुत्वे च गुरुत्व एव मानमुच्छिन्नं तक्रियाहेतुतया गुरुत्वासिद्धेविजातीयकार्यस्यैव विजातीयकारणानुमापकत्वात् / एतेन पातव्यवहारवत्परंपरया सम्बन्धविशेषेण वा परमाणुगुरुत्वमेव पतननियामकमित्यपि निरस्त तुल्यन्यायेनैवं परमाणुगतरूपादेरेवायविचाक्षुषाधुपपत्तावयविरूपादेरप्युच्छेदापत्तेश्च / किं च वेगाख्यगुण एव तावन्मानाभावः, एकस्या एव क्रियायाः प्रकर्षानुसारेण फलबाहुल्यकल्पनायाश्चरमसंयोगनाश्यतायाश्चोपपत्तेः, वेगाभ्युपगमेऽप्येकस्मादेवादृष्टात्स्वर्गसन्तानवदेकस्मादेव तत उत्तरोत्तरकर्मसन्तान इति मतस्योपपन्नत्वात् / स्वजन्यक्रियाजन्यसंयोगस्य वेगनाशकत्वे प्राथमिकवेगद्वितीयकर्मणोर्युगपदेव नाशाद् द्वितीयवेगानुपपत्तेः, वेगवति वेगानुत्पत्तेः प्राक् तदसंभवात् / स्वजन्यकर्मणो वेगनाशकत्वे तु वेगः स्पर्शवद्र्व्यसंयोगविरोधीति भाष्यविरोधादिति गुरुत्वसापेक्षपातजन्यावयववेगजवेगाधीनकियाया व्यणुकादेरधःसंयोग इति रिक्तं वचः / एतेन प्रलये परमाणवो दोधूयमानास्तिष्ठन्तीति भाष्यमपि नियुक्तिकमेव द्रष्टव्यम् , तदानीं पुत्र गुरुत्वाधीनकर्मसन्तानस्य दुरभ्युपगमत्वात्पातप्रतिबन्धकवेगाभावेन तदा परमाणूनां पातस्यैव 1. परस्परसम्बद्धावयवानामिति भावः।