________________ तपागणसौधस्तम्भ-महोपाध्याय-श्रीमद्धर्मसागरगणिवर स्तुत्यष्टकम् // 1 // // 2 // सिताम्वरे यो विमले तपागणे - ऽभवत् प्रभावान् नभसीव भास्करः / जिनाङ्गषड्दर्शनशास्त्रवेदिनं नमामि तं वाचकधर्मसागरम् आचार्यों विजयादिदानसत् - सूरीश्वरो वाचकसत्पदाङ्कितम् / चकार यं पीतजिनागमामृतं नमामि तं वाचकधर्मसागरम् श्रीकल्पसूत्रे किरणावली बुध-प्रिया सुवृत्ती रचिता सविस्तरा / तथाऽन्यशास्त्राण्यपि येन धीमता नमामि तं वाचकधर्मसागरम् जिनेन्द्रवाणीरसविद्धधातवे यस्मै नमस्यन्ति गुणानुरागिणः / जिनेशशास्त्रोनुगवाक्यविस्तरं नमामि तं वाचकधर्मसागरम् यस्माद् भजन्ते स्म भयं कुपाक्षिकाः चामुण्डिकाद्या हरिणा हरेरिव / उत्सूत्रदुःकण्टकभेदनोद्यतं नमामि तं वाचकधर्मसागरम् यस्य प्रसिद्धो भुवने क्षमावतो यशश्चयः शङ्खशशाङ्कनिर्मलः / षड्जीवकायावनतत्परं सदा नमामि तं वाचकधर्मसागरम् शान्तत्वदान्तत्वमुमुक्षुतादयो यस्मिन् गुणा रत्नवदर्णवे वराः / भावानुकम्पाश्चितचारुचेतसं नमामि तं वाचकधर्मसागरम् इत्थं स्तुतो हर्षभराद् गणीश्वरः स्तम्भायमानः तपगच्छमन्दिरे / श्रीमानुपाध्यायपदाङ्कितः सुधी-जयत्यजस्रं गणिधर्मसागरः // 8 //