________________ 214 सर्वज्ञ-शतकवृत्ती रतसम्यग्दृष्टिरिति भावः / 'देशविराहए ' त्ति / देशं-स्तोकमंशं ज्ञानादित्रयरूपस्य मोक्षमार्गस्य तृतीयविभागरूपं चारित्रं विराधयतीत्यर्थः / प्राप्तस्य तस्यापालनात् अप्राप्ते वे (त्यादि अत्र हि प्रथमभङ्गे बालतपस्वी शीलेन देशाराधको भणितः / द्वितीयभङ्ग अविरतसम्यग्दृष्टिः शीलाभावेन देशविरोधकः / एतच्च भवदभिप्रायेण कथं सङ्गच्छते ? इति चेत् / अहो भ्रान्तिः ? भगवत्या एवानुवादवचनमुच्यमानं भवदभिप्रायेणेत्याद्यविमृश्य वक्तृत्वात् / प्रत्युत भवन्तमेव वयं पृच्छामः-इह प्रथमभङ्गे यो बालतपस्वी भणितः , स किं शाक्यादिरन्यतीर्थिकः उत जिनोक्तसामाचारीपरायणो मिथ्यादृष्टिर्वा ? | नाद्यो, जैनानामपसिद्धान्तात् / शाक्यादिमार्गस्योन्मार्गत्वेन तन्मार्गाभिमतानां देवादीनामदेवत्वादिनेव ज्ञानस्य चाज्ञानत्वेनेव शीलस्याप्यशीलत्वेनाहतोक्तत्वात् / किञ्च-शीलशब्देनेह चारित्रं भणितम / तच्चान्यतीर्थिकमार्गे लेशतोऽपि न भवति' ) ( 'तेनान्यतीथिकाभिमतशीलेन देशाराधको भवतीति बोध्यम् / अन्यथा तथाभूतशीलस्य कारणं प्रज्ञोपकस्य ज्ञानमपि वक्तव्यं प्रसज्येत / तच्च न कस्यापि सम्मतं, मिथ्यादृशो ह्यज्ञाने सति ज्ञानस्यासम्भवात् / 'जस्स अण्णाणा तस्स णाणा णत्थि 'त्ति. वचनात् / द्वितीयस्तु न्याय्य एव / यतस्तथाविधं मोहनीयोदयवशेन जैनाजैनयोः सम्यक्स्वरूपमजानानोऽव्यक्तमिथ्यादृष्टिभव्योऽभव्यो वा कुतश्चिन्निमित्तात् जिनोक्तशुद्धक्रियोपरायणो जैनमार्गपतितो 'भविअदव्वदेवाण'. मित्याद्यागमोक्तोऽवसातव्यः / स च शुद्धक्रियां कुर्वाणोऽपि मिथ्यात्वोदये पण्डिततपस्वीति वक्तुमशक्यत्वेनानन्यगत्या बालतपस्वीत्युच्यते / देशाराधकत्वं च 'यदकरणे देशतः सर्वतो वा विरोधकत्वं तत्करणे देशतः सर्वतो वा आराधकत्व 'मिति नियमबलेन जैनक्रिययैवावसातव्यम् / न पुनरन्यतीर्थिकक्रिययापि, तदकरणे विरोधकत्वाभावात् / किञ्च-आराधकत्वं मोक्षकारणाऽऽसेवनेनैव स्यात् / मोक्षकारणं च सम्यकक्रिययैव भवति 'सम्यग्ज्ञानदर्शनचारित्राणि मोक्षमार्ग' इतिवचनात् / सा च क्रिया जैनमार्गपतितस्य जिनोक्तक्रियां कुर्वतोऽवसातव्या / शाक्यादिमार्गाभिमतक्रिया तु संसारकारणत्वेन मोक्षकारणमेव न भवति / कथं तथाभूतेन शीलेन देशाराधकत्वसम्भावनापीति पर्यालोच्यम् / द्वितीयभङ्गे तु 'प्राप्तस्य तस्यापालना 'दिति वचनेन देशविराधकत्वे सिद्धे सिद्धं सूत्रस्य सविषयत्वेन प्रामाण्यमिति / ) ( किश्चद्वितीयभङ्ग इव प्रथमभङ्गेपि ज्ञानदर्शनयोराराधक एव वक्तव्यः, तस्य तयोरप्राप्तत्वात् / यद्वा सत्त्वेन यद्याराधकत्वं, तर्हि प्रथमभङ्ग इव द्वितीयभङ्गेपि ज्ञानदर्शनयोराराधक एव वक्तव्यः , तस्य तयोः सत्त्वादित्येवमुभयथापि प्रतिबन्दीनामा दोषो दुरपनेय इति / तस्मात् प्रतिपन्नसम्यक्त्वादीनां परिपालनेनाराधकत्वमपरिपालनेन च विराधकत्वमिति भावः / एतेन प्रथमभङ्गव्याख्यायां 'गीतार्थानिश्रिततपश्चरणरतोऽगीतार्थ इत्यन्ये' इति यदुक्तम् / तत्र गीतार्थो यदि सम्यग्दृष्टिः तर्हि बालतपस्वी न स्यात् / उक्तश्च भगवतीचूर्णावपि बालतपस्वीति / यदि च मिथ्यादृष्टिस्तीष्ठापत्तिरेव, उक्तस्वरूपस्य सत्त्वादिति तात्पर्यमिति ) त्येवमागमवचनात् कथमाराधकानाराधकविराधकलक्षणानां त्रयाणां भङ्गानां मध्ये शाक्यादिकमधिकृत्यानाराधकलक्षणो द्वितीयो भङ्गः सम्यग्भवेत् देशाराधकत्वेनोक्तत्वादिति चेत् / मैवं, जैनप्रवचनस्य सम्यगवबोधाभावेनापसिद्धान्तात् / यतो मिथ्यादृष्टेमा॑नस्याप्यज्ञानत्वेनेव तन्मार्गपतितशीलક્રિયાતત્પરપણાથી. એ પ્રથમ ભંગ. પાપથી નિવર્યો નહીં અને વિજ્ઞાતધર્મ એહવે અવિરતસમ્યગદષ્ટિ એ ભાવ. દેશ-થોડા અંશ-જ્ઞાનાદિત્રય૩૫ જે મોક્ષમાર્ગ તેહના ત્રીજા ભાગરૂપ જે ચારિત્ર તે વિરાધે એ બા, જે પાગ્યાના અપાલનથી અથવા અણુ પામ્યાથી.' એહવા આગમવચનથી કિમ આરાધક અનારાધક