________________ 60 ] महोपाध्यायश्रीमन्मेघविजयविरचितम् [ श्रीश्रेयांसजिन विष्णोः पुण्यानुगुण्येन ददुर्देवास्तदा मुदा / शार्गे धनुः पाश्चजन्यं शर्ख कौमोदिकी गदाम् // 117 // नन्दकं नाम खड्गं चाचलायापि हलं ददुः / संवर्तकं स सौनन्दमुशलं कुशलं दधत् // 118 // अश्वग्रीवेण नागास्ने मुक्ते मुक्तेऽभियुक्तधीः / गारुत्मतं हरिः शस्त्रं प्रायुक्त तद्विनाशनम् // 119 / / संग्रामेऽस्त्रग्रामहानौ प्रतिविष्णुः स साहसात् / ___ हसन्नाह शिशो याहि न चेचक्राद् हनिष्यसे // 120 // जिष्णुर्विष्णुरपि प्रौढयोवाच मुश्च यदृच्छया / तदुक्त्या दुरितं चक्रं स सस्मारेष्टदेववत् // 121 // करं प्राप्ते ज्वलचक्रे चक्रे शक्रे च पश्यति / मुमोच शोचमुन्मुच्याऽश्वग्रीवश्चक्रमुल्वणम् / / 122 // पुण्यानुगुण्यात् तदपि हरेरुरसि ताडनम् / / विधाय तत्करे तस्थौ रेखोल्लिखितचक्रवत् // 123 // मृच्छितं वाधपास्यैवं वीक्ष्य विष्णुं तदा बलः। . स्वपक्षो ज्वलनादिश्च हाहारवपरोऽभवत् // 124 // हयग्रीवं चूर्णयामि यामि बन्धो समादिश / मासित्युक्त्वाऽचलो यावद् धावति क्रोधदुर्द्धरः // 125 / / तावत् त्रिपृष्ठ उत्थाय समं सैन्यजयारवैः / प्रतिचक्रं ससर्जाशु चक्रं च प्रतिमोचनात् / 126 / छित्त्वाऽश्वग्रीवगलकं तच्छिरोऽधात् करे हरेः। ___पुष्पवृष्टिः कृता तुष्टैः सुरैर्जयजयारवैः / / 127 / / स वासुदेवः प्रथमोऽभिषिक्तः सकलैनपैः / स्वयं मागधमुख्यानि विष्णुस्तीर्थान्यसाधयत् / / 128 / / वैताढ्यश्रेणियुगलं वशीकृत्य शिलां पुनः / शीर्षे छत्रमिव हरिर्दधार कोटिपूर्विकाम् / / 129 / / यथास्थानं निवेश्यैनां दशाणांचलपार्श्वगाम् / प्रविवेश महै विष्णुः स्वं पोतनपुरं स्फुरत् / / 130 / /