________________ 58 ] महोपाध्यायश्रीमन्मेघविजयविरचितम श्रीश्रेयांसजिन वैताढथे दक्षिणश्रेणौ रथनू पुरपूर्वरम् / चक्रवालपुरं तत्र च जटीज्वलनो नृपः // 81 // तस्य स्वयंप्रभा नाम्ना पुत्री च विदिता भुवि / ___ रूपातिशयतः साक्षाद्रतेररतिकारिणी // 82 // तस्या वरकृते पृष्टः सम्भिन्नश्रोतसाह्वयः / नैमित्तिको जगद्वित्तः प्राह विवाहसाधनम् // 83 // मयाऽश्रावि भावि वृत्तं नृपपुत्री स्वयंप्रभा / त्रिपृष्ठवासुदेवस्य महिषी भाविनी पुरा // 84 // श्रुत्वा नैमित्तिकगिरं हयग्रीवोऽस्य शङ्कया / उपेत्य पोतनपुरं सौधेऽसौ तस्थिवान् सुखी // 85 // प्रजापतिस्तं सत्कृत्य सम्मुखं गमनादिभिः / विचार्य कार्य पप्रच्छ तेनाऽपि जगदे पदे / / 6 / भवत्पुत्राय मत्पुत्री दातुमत्राऽऽगमं समम् / परिवारेण सारेणोपयामोऽस्तु ततो द्वयोः / 87 / तयोः पाणिग्रहे जाते ज्वलनं बद्धमुद्धताः / हयग्रीवाज्ञयाऽभ्येयुभंटास्तत्र मदोत्कटाः / 88 / क्रुध्यस्तेभ्यो युध्यमानो ज्वलनो ज्वलनोपमः / __दृष्टस्तैर्यमवद् रोधान् मध्याह्नार्यमवत्विषा // 89 // प्रभोः समीरणादुओ रणे समीरणेन ते / प्रतिकूलेन रजसा विहिताः पिहितेक्षणाः // 90 !! अन्योन्यमन्धवच्छस्वैभिद्यमाना रजोभरैः / क्षणात् क्षीणबला नेशुः दधतो ज्वलने यशः // 91 // ज्ञातेऽवदातेऽश्वग्रीवः स्वयं शत्रुजिघांसया / चतुरङ्गचमूयुक्तश्चचालाऽचलकम्पनः // 92 // मन्त्रिभिर्वार्यमाणोऽपि निषिद्धः शकुनैः पुनः / जायमाने महोत्पातेऽश्वग्रीवः प्रस्थितिं दधौ // 93 // भूचरैः खेचरै पैः सबलैः प्रबलैरथ / सैन्ये प्रवर्द्धमानेऽस्य सीमाऽकारि तदाधिना / 94 / श्रुत्वा सागरमुढेलमिवायान्तं महाबलम् / त्रिपृष्ठं साचलं प्रोचे विद्याभृद् ज्वलनः पुनः // 95 // भवद्भाग्यं ससौभाग्यं जयस्त्रिभुवनेऽपि वः / तथापि विद्याः सद्योऽत्र साध्या काश्चन सिद्धये // 96 // गारुडी रोहिणी विश्वक्षोभणी कामरूपिणी / मोहनी स्तम्भनी व्योमचारिणी जयधारिणी // 97 //