________________ 52 ] महोपाध्यायश्रीमन्मेघविजयविरचितम् [ श्रीशीतलनाथ मस्तकाभरणं केशा देहालङ्कारवत् ततः / तानत्याक्षीत् जगत्साक्षी सोऽपुनर्भवभावतः // 26 // माघस्य कृष्णद्वादश्यां पूर्वाषाढास्थिते विधौ / दीक्षायां ज्ञानमुत्पन्नं मनःपर्यायसंज्ञया // 27 // षष्ठस्य पारणा जज्ञे पुनर्वसुनृपालये / स्वर्णवृष्टयादि दिव्यानां पञ्चकं प्रकटं ततः // 28 // क्षिप्तघातिमहारातिः केवलज्ञानवान् जिनः / पौषकृष्णचतुर्दश्यां नक्षत्रे मूलतः परे // 29 // प्राग्वदत्रापि समवसरणं चक्रिरे सुराः / चैत्यगुरस्याशीत्यग्रदशधन्वशतोन्नतः / / 30 / / प्रतिबोध्य बहून् भव्यान सुधाशीतलवाग्रसैः / / मोहव्यपोहमाधाय केवलित्वे व्यराजत // 31 // ब्रह्मनामा तीर्थरक्षो यक्षस्त्र्यक्षश्चतुर्मुखः / अष्टबाहुर्मातुलिङ्गमुद्गराऽभयपाशभृत् // 32 // वामभागे नकुलयुक् गदाङ्कुशाक्षसूत्रवान् / देव्यशोका चतुर्बाहुर्वामेऽङ्कुशफलान्विता // 33 // दक्षिणो वरदः पाशी भुजस्तस्याः प्रशस्यते / आभ्यां सेव्यस्त्रिमास्योनपूर्वाणां पञ्चविंशतिः // 34 // सहस्रान् स्वविहारेण कैवल्येऽतीत्य जग्मिवान् / संमेतगिरिभिन्द्राद्यैः स्तूयमानः पदे पदे // 35 // द्वितीयायां राधकृष्णेऽलश्चक्रे पदमव्ययम् / / मासिकानशनस्थायी पूर्वलक्षोऽस्य चाऽऽयुपि // 36 // कौमारे च व्रते पूर्वसहस्राः पञ्चविंशतिः / तद् वैगुण्यं राज्यवासे देवेऽभूद् भूविभूषणे // 37 // श्रीहेमचन्द्रोदितजैनवाक्याम्भोधेविंशोधेरिव शुद्धबोधे / उद्धृत्य मेघेन भृते सुधायाः कुम्भोपमे पर्व बभौ तृतीयम् // 38 // इति श्रीलघुत्रिषष्टीयचरिते श्रीशीतलस्वामिचरितं संपूर्णम् //