________________ 340] महोपाध्यायश्रीमन्मेघविजयविरचितम [ प्रशस्तिः जगच्चन्द्रस्तपाह्वानः श्रीदेवेन्द्रस्ततः परम्४५ / धर्मघोषः४६ सोमपूर्वप्रभः४७ तिलकवाक४८ ततः // 11 // देवसुन्दर४९ इत्यस्मात् गणभृत् सोमसुन्दरः५० / मुनिसुन्दरसूरिश्च५१ रत्नशेखर५२ इत्यतः // 12 // श्रीलक्ष्मीसागरगणी५३ सुमतेः साधु सरिराट्५४ / श्री हेमविमल५५ स्तस्मात् आनन्दविमलः प्रभुः५६ // 13 // सूरिविजयदानाख्यः५७ श्रीहीरविजयः प्रभुः / प्रभावकः श्रीयवनराजाऽकबरबोधकः५८ // 14 // श्रीमान् विजयसेनो१९ऽस्मात् सूरिविजयदेववा६० / महातपास्ततः शस्तः सूरिः श्रीविजयप्रभः६१ // 15 // तत्पट्टोदयशैलमौलिकमलाऽलङ्कारभट्टारकः श्रीमान् श्रीविजयादिरत्नभगवान् उद्भूतपूतप्रभः / भूतः श्रीपुरुहूतसंसदि सदाऽप्याहूतदिव्याप्सरः श्रेण्या पुण्यवरेण्यसद्गुणगणैः प्रस्तू यमानः स्तुतौ // 16 // तद्राज्ये जयशालिनि जज्ञे श्रीमद्गुरोः कृपाविजयात् / श्रीविजयप्रभसरेरवाप्तवाचकपदः स मुनिः // 17 // श्रीमेघविजयनामा विनयविलासं लघुत्रिपष्टीयम् / चक्रे कोष्ठागारिकवनराजाभ्यर्थनायोगात् // 18 // तद्गुरुपरम्परा चैवम्रेजे राजाधिराजोऽकबरयवनाधीश्वरः पातिसाहि यस्तं स्वस्तिप्रशस्त्या वचनरचनयाऽबूबुधद्धर्ममार्गम् / श्रीसूरिभूरिकीत्तिः श्रमणगणतपाह्वानभूपस्वरूपः। श्रीमान् श्रीहीरपूर्वो विजयपदधरः श्रीधराभ्यर्चनीयः // 19 // कनकविजयनामा वाचकः प्रौढधामाऽप्यभवदिह विनेयः श्रेयसामेकपात्रम् / तदनु विशदशीलः शीलनामा कवीन्दुस्त्रितयमपि तदन्तेवासिनां प्रादुरास // 20 // कमलविजयनामाद्यो द्वितीयश्च सिद्धेविजय इति तृतीयश्चारुचारित्रपूर्वः / प्रशमसमयसिन्धुः सिन्धुरस्तार्किकेषु समजनि जनितश्रीर्वाचकोऽस्मिन् गणेऽपि // 21 //