________________ प्रशस्तिः / लघुत्रिषष्टिशलाकापुरुषचरितम् - [ 339 अहङ्कारोऽपि बोधाय रागोऽपि गुरुभक्तये / विषादः केवलायाऽभूच्चित्रं श्रीगौतमप्रभोः // 585 / / धृत्वा द्वादशवर्षाणि कैवल्ये स्वायुषः क्षये / सुधर्मणे गणं दत्त्वा गौतमोऽगान् महोदयम् // 586 / / श्रीहेमचन्द्रोदितजैनवाक्याम्भोधेविंशोधेरिव शुद्धबोधे। उद्धृत्य मेघेन भृते सुधायाः कुम्भोपमेऽभूद् दशमं सुपर्व // 587 / / इति श्री लघुत्रिषष्टीये श्री वर्धमानचरितं सम्पूर्णम् / ग्रं. श्लोकाः 587 / -over प्रशस्तिः सुधर्मस्वामिनः पट्टस्थितौ विंशतिवत्सराः / कैवल्ये चाऽटवर्षाणि भुक्त्वा सिद्धिं जगाम सः // 1 // जम्बूर्जम्बूद्वीपभानुः स्वामी सिद्धो जिनादनु / वत्सराणां चतुःषष्टया तत्पट्टे प्रभवः प्रभुः / 2 / शय्यम्भवो४ यशोभद्रः५ सम्भूतिविजयस्तथा / भद्रबाहुः षष्ठपट्टे स्थूलभद्रश्च सप्तमः // 3 // महागिरिश्चार्यपूर्वः सुहस्ती चाष्टमे पदे / नवमः सुस्थितोऽप्यन्यो गणी सुप्रतिबद्धकः // 4 // इन्द्रदिन्नस्ततो दिन्नः११ श्रीसिंहगिरिरित्यतः। - वज्रस्वामी१३ वज्रसेनः१४ चन्द्रः सामन्तभद्रकः१६ // 5 // वृद्धदेवस्ततः प्रद्योतनोऽतो१८ मानदेववाक१९ / मानतुङ्गो२० बीरसूरि२१जयदेवो गणाग्रणीः२२ // 6 // देवानन्दो२३ विक्रमश्व२४ नरसिंहः२५ समुद्रकः२६ / / मानदेवोऽ२७पि विबुधप्रभो२८ नन्दो जयादिमः२९ // 7 // रविप्रभो३० यशोदेवः३१ प्रद्युम्नो३२ मानदेववा३३ / 'तत्पट्टे विमलचन्द्र३४ उद्योतनश्च तत्पदे३५ // 8 // श्रीसर्वदेवः३६ श्रीदेवः३७ सर्वदेवः पुनर्गणी३८ / यशोभद्रो३९ नेमिचन्द्रो मुनिचन्द्रो मुनीश्वरः४० // 9 // तत्पट्टेऽजितदेवोऽभूत्४१ ततो विजयसिंहवाक् / * सोमप्रभो मणिरत्नो गच्छपौ द्वौ बभूवतुः // 10 //