________________ चरितम्] लघुत्रिषष्टिशलाकापुरुषचरितम् / 333 नीतस्ताभ्यां यथास्थानं नागिलश्रावकेण स / वार्यमाणोऽपि चेगिन्या मृत्युमाप्य सुरोऽजनि // 488 // नागिलः श्रावकत्वेन प्रान्ते मृत्वा समाधिना / - द्वाविंशत्यर्णवायुष्कः सुरः स्वर्गेऽच्युतेऽभवत् // 489 // नन्दीश्वरे सुरपुरस्तयोर्गानं प्रवर्तते / मुच्यमानोऽपि पटहस्तद्गले लग्नवान् स्वतः // 490 // नन्दीश्वरस्तं जिहानस्ताभ्यामेव प्रबोधितः / पटहं वादयन्नग्रे देवानां स ययौ तदा // 491 // स्वं प्रज्ञाप्य नागिलेन तदुर्योनिजिहासया / देवादिदेवप्रतिमां कायोत्सर्गामचीकरत् / 492 / येन केनाऽपि धर्मेण तपोव्रताऽपरिग्रहैः / मिथ्यात्वात् न शिवं गच्छेत् सम्यक्त्वात् बिम्बजात्तरेत् // 493 // तपोमुख्याः कायवचःशुद्धिं कुर्युस्तनूभृताम् / ___ मनःशुद्धिस्तु सम्यक्त्वात् तज्जैनप्रतिमेक्षणात् // 494 / / विज्ञेयो मुद्रया साधुरसाधुर्वा चिरस्थया / तेनोपकरणं साधोराज्ञातं रूप्यकादिवत् // 495 // चैत्यं धर्मस्य भवनमापणश्चाश्रमो मुनेः। तद्व्यापार पौषधादिमूलं तत् प्रतिमाहताम् / 496 / जिनार्चाकारकाणां न कुजन्म कुगतिर्न च / न दारिद्र्यं न दौर्भाग्यं न चान्यदपि कुत्सितम् // 497 // विद्युन्माली सगोशीर्षचन्दनप्रतिमां प्रभोः / साऽलङ्कारां विधायाऽतो न्यधाच्चन्दनसम्पुटे // 498 // निवार्य बहनोत्पातं दत्त्वा तां वणिजे सुरः / प्रापयत् सिन्धुसौवीरे श्रीवीतभयपत्तनम् // 499 // नानादेवभक्तलोकैः स्वस्वेष्टस्मृतिपूर्वकम् / - उद्घाट्यमाना मञ्जूषा विसंधत्ते स्म नो मनाक् // 500 // सम्पूज्य तां जिनाह्वानस्मरणेन प्रभावती / राज्ञी प्रोद्घाटयामास पूजयामास तां गृहे / 501 / नृपेणाऽन्येधुरर्चायां प्रभावत्या हि नर्तने / शिरो विना वपुर्दष्टं राजाऽतो व्यमनायत / 502 / दास्यानीतं श्वेतवस्त्रं पूजार्थ तत् प्रभावती / रक्तं दृष्ट्वा रुषा दासीमवधीत् सा मृताऽचिरात् // 503 //