________________ 332 ] महोपाध्यायश्रीमन्मेघविजयविरचितम [ श्रीवर्धमान प्रस्थातुकामे गणभृद्वरेऽभयकुमारकः / पृष्ट्वा हेतुं चैकदिनं ररक्ष गणधारिणम् // 471 // द्वितीयदिवसे कोटित्रयं निष्काश्य कोशतः / अवदल्लोकमाहूय गृह्णात्येतत् स मानवः // 472 // यस्त्यजेज्जल-वह्नि-स्वीरित्युक्त्या कोऽपि नाऽददे / तदस्तु वस्तुतो योग्यं तस्येदं काष्ठभारिणः // 473 // तमाहूयाऽऽग्रहेणास्य प्रशशंस जनस्तदा ! एवं धर्मेऽभयोऽकार्षीत् पदे पदे प्रभावनाम् / 474 / आगते भगवद्वीरे प्रव्रज्योदायनं नृपम् / गत्वा नत्वाऽभयो मन्त्री स्तोतुमेवं प्रचक्रमे / 475 / सत्त्वस्यैकान्तनित्यत्वे कृतनाशाकृतागमौ / स्यातामेकान्तनाशेऽपि कृतनाशाकृतागमौ / 476 / इत्यादिकस्तुतिप्रान्ते राजर्षिः कोऽन्तिमः प्रभो ! / भावीत्यपृच्छदभयः जिनस्तूदायिनं जगौ // 477 // सिन्धुसौवीरदेशोऽस्ति तत्र वीतभयं पुरम् / तस्योदायनभूजानिर्मानिन्यस्य प्रभावती // 478 // मरीचिनार्कोऽभीचिश्च तनयो भागिनेयकः / नृपस्य केशिनामाऽऽसीद् राशीभूद्गुणाश्रयः // 479 // इतश्च चम्पानगरे स्वर्णकृद्धनवानभूत् / नाम्ना कुमारनन्दीति वधूपश्चशतीपतिः // 480 // हासा-प्रहासाऽभिधाने व्यन्तयौं तत्पतिश्युतः / मोहितः स्वर्णकृत् ताभ्यां पञ्चशैलागमं प्रति // 481 // स्वप्रमाणस्वर्णदानान्नावमारोह्य नीरधौ / नीयमानः स्थविरेण पुरो वटमवैक्षत // 482 // त्वमेनमवलम्बेथा आवर्ते वहनं पुनः / भङ्गमाप्स्यति यामिन्यां भारुण्डा वटशायिनः / 483 / एकोदराः पृथग्ग्रीवा अन्योन्यफलकासिणः / भारुण्डपक्षिणः ख्यातास्त्रिपदा मर्त्यभाषिणः // 484 // तन्मध्यमपदे स्वाङ्गं बधनीय बाहुसङ्ग्रहात् / ते पञ्चशेलं नेष्यन्ति प्रातः स्वभक्ष्य लिप्सया // 485 // इत्युक्त्वा स्थविरे याते तेन चक्रे तथाविधिः / प्राप्तः क्रमाद् यत्र हासाप्रहासे मन्दिरे स्थिते // 486 // ताभ्यामुक्तस्तव तन्वा सङ्गो नो न भवेदतः / वह्नावहाय दग्ध्वा स्वं पञ्चशैलप्रभुभव 487 /