________________ चरितम् ] लघुत्रिषष्टिशलाकापुरुषचरितम् [309 कदाऽप्युल्लचिता मद्वाक् न त्वया सान्त्वय ह्यमून् / त्वदृतेऽन्यं यशोदाऽपि न वृणोति शृणोति वा // 101 // एवं पित्रोनिबन्धेन तां प्रभुः परिणीतवान् / अनासक्त्या सुखं सेवे पुण्यभूत् प्रियदर्शना / / 102 / / पित्रोः समाधिना कल्पेऽच्युते समुद्भवे सति / अष्टाविंशतिवर्षोऽपि प्रभुर्भावयतिर्बभौ / / 103 // प्रासुकामपानभोजी ब्रह्मचारी विशुद्धधीः / विलेपनस्नानवर्जमार्जयत् तपसां धनम् // 104 // स्वयं ज्ञातेऽप्यवधिनाऽवसरे व्रतसाधने / लोकान्तिकसुरैरेत्य ज्ञापितेऽभूत् तदोन्सुकः // 105 // दत्त्वा च वार्षिकं दानं चतुःषष्टीन्द्रसङ्गमे / चन्द्रप्रभाल्यशिबिकामारुह्योपवनं ययौ / 106 / तत्याज राजचिह्नानि पञ्चमुष्टिकलोचकृत् / प्रवबाज प्रभुर्मार्गे श्यामायां दशमीतिथौ / 107 / कृतसिद्धनमस्कारः प्राप्तषष्ठतपाः प्रभुः। मनःपर्ययमप्याप ज्ञानं चारित्रचारि च // 108 // नन्दिवर्द्धनमापृच्छय विहारे च हरिजंगी / स्वामि स्त्वत्सेवकीभूय वैयावृत्त्यं करोम्यहम् // 109 // स्वाम्याह शक्रं नैवं स्यात् केवलं सुरसविधेः / स्ववलेनैव सकलज्ञानं मोहव्यपोहतः / 110 / तथाऽपि शक्रः सिद्धार्थ व्यन्तरं चादिशत् तदा / . मातृष्वयसम्बन्धात् स तस्थौ स्वामिनोऽन्तिके // 111 // भृङ्गा विलेपनामोदाकृष्टाश्चक्रुरुपद्रवम् / तथा गन्धपुटीयाश्चां पौंसं स्त्रैणं चकार च / 112 / अब्रुवाणे जगत्त्राणे केऽप्युपद्रवमादधुः / प्रातिकूल्यानुकूल्याभ्यामुपसर्गाश्च जज्ञिरे // 113 // मुहूर्त्तशेषे दिवसे कारग्राममाप्तवान् / स्थितः स्वामी प्रतिमया गोपकोपस्तदा निशि // 114 // न्यवारयत् तमुत्पातं प्रथमं शक्रविक्रमः / प्रातश्च षष्ठतपसः पारणा बहुलौकसि // 115 // गृहिपात्रे पायसेन विहिता स्वामिना तदा / प्रादुरासन् पश्चदिव्यान्यस्य गेहेऽद्भुतोदयात् // 116 // जाते प्रभाते मोराकसभिवेशे प्रभुर्ययौ / प्राज्यदूदूर्यतकाख्यतापसाश्रमधारिणि // 117 // पितुमित्रं कुलपतिस्तत्र प्रभुमुपस्थितः / पूर्वाभ्यासात् स्वामिनाऽपि तस्मिन् बाहुः प्रसारितः // 118 //