________________ चरितम् / लघुत्रिषष्टिशलाकापुरुषचरितम् [ 307 वृषे शुक्रे व्यये केतौ राहौ मिथुनवर्तिनि / चैत्रशुक्लत्रयोदश्यां त्रिशलाऽसूत सा सुतम् // 76 // दिकुमार्योऽभ्युपेत्याऽत्र षट्पञ्चाशद् यथाविधि / चक्रिरे सूतिकर्माणि माणिक्योत्तेजनादिवत् / / 77 / / नीत्वा मेरुं प्रभुं शक्रः स्वोत्सङ्गे विनिधाय तम् / चतुःषष्टिसुरेन्द्राणां सङ्गमेऽचिन्तयद् हरिः // 78 // इयन्तं वारिसंभारं कथं स्वामी सहिष्यते / ___ मत्वाशयं वामपादाङ्गुष्ठात् सोऽचीचलगिरिम् // 79 // मेरौ चलति सर्वेऽपि कुलाचलाश्वलाचलाः / अचलामूलचूलाग्रं चकम्पे च प्रकम्पनैः // 8 // वास्तोष्पतिश्चकोपाऽऽशु प्रयुक्ताऽवधिबोधतः / मत्वा लीलायितं जैनं क्षामयामास वासवः // 81 // अचिंतेऽस्मॅिस्त्रिषष्टीन्द्ररभिषिक्ते हरिः स्वयम् / . ऐशानवासवोत्सङ्गे न्यस्य देवं समर्चयत् / / 82 // कृत्वाऽऽरात्रिकमङ्गल्यदीपादीन् नव्यकाव्यकृत् / . तुष्टुवे सुष्ठु वेलायामनैषीदुपमातृकम् // 83 / / स. श्री वर्धमान जिनस्य अन्म कुण्डली