________________ 298 ] महोपाध्यायश्रीमन्मेघविजयविरचितम् [ श्रीपार्श्व तस्याश्चरणशरणं कृत्वा तद्भवनेऽमुचत् / तं बालं करुणापूर्णस्तत्राऽयाद् वनपालकः // 432 / / अपुत्रस्याऽऽशु मे पुत्रो वनदेव्या प्रसादितः / पत्न्यै दत्त्वा तस्य जन्मोत्सवं चक्रे सवत्सलः // 433 // वनराज इति स्वीयैर्दत्तनामाऽप्यवीवृधत् / अन्यदा तं समादाय पुष्पलावी नतो नृपम् // 434 / / पुरोधाः प्राग्वदाचख्यौ तच्चमत्कृतचेतसा / अनयास्तनयाश्चैनं मदीया घ्नन्तु मा वृथा // 435 // हन्तुं तदाशामूलं तच्चण्डमाकार्य पृष्टवान् / सत्यं ब्रूहि भयं नैहि बालः क्षतोऽक्षतोऽथवा / 436 / सत्यवाचं विमुच्यतं भीमसेनाख्यमादिशत् / जिघांसुमेनं हन्यास्त्वं ममादेशाद् वनान्तरे // 437 // वनाद् बालं गृहीत्वाऽयं गच्छन्नश्वेन सत्वरम् / भणितोऽनेन बालेन तात यासि क्व साम्प्रतम् // 438 // . राज्ञः श्लिष्टोक्तितः किञ्चिद् दुष्टचेता अपि क्षणात् / तथैव रक्षणोपायं व्यमँस्त मृदु तद्राि // 439 // नाऽस्य बालस्य भीतिः स्याद् यक्षः प्रत्यक्ष एव वै / __ तदस्य शरणे मुक्त्वा यामि यामिकवद्गृहम् // 440 // यक्षोत्सङ्गे तं निवेश्य ययौ भीमः स्वमन्दिरे / तस्य तुन्दं स्पृशन् सैष मोदकं तात देहि मे // 441 // इत्थं बालगिरा तुष्टो यक्षोऽदान मोदकं वरम् / इतश्च केशवोऽप्यागात् सार्थवाहीभवन् स्वयम् // 442 // गता मे वृषभा एष्यन्त्यत्र तेषु प्रसादतः / करिष्यामि त्वदीयार्चा यक्षसाक्षान्महोत्सवैः // 443 // आगतेषु स्वतो गोषु पूजार्थे चैत्यमागतः / तुष्यस्तं बालमादाय चचाल स्वालयं प्रति // 444 // पाठितः शास्त्रसन्दोहं दधानः सकलाः कलाः / / जातः षोडशवर्षोऽयं ज्ञातः पित्रा मनाम् न सः // 445 //