________________ 296 ] महोपाध्यायश्रीमन्मेघविजयविरचितम् . [ श्रीपार्श्व देवायुबन्धकृज्जाता प्रत्येकभवसाधनात् / स्पष्टमेतत् पश्चमाङ्गे दानव्यक्तिश्च भक्तितः // 402 // भक्तेः स्याद् गुरुशुश्रूषा भूषाऽसौ परमा मुनेः / वासो गुरुकुले तस्मानिवासः शिवसम्पदाम् // 403 // ब्राहम्यालिपेनमस्कारो नमोवत् परमेष्ठिनाम् / गुणवत् कीर्तनं भक्तिभक्तिः स्याद् गुरुवन्दनात् // 404 // प्रभावना भक्तिरूपा भावना भक्तिसाधनम् / चारणर्षेस्तीर्थयात्रा भक्तिरेव गरीयसी // 405 / / शमिनां भक्तिरुद्दिष्टा निर्जराकारणं महत् / श्राद्धस्य किं पुनर्वाच्यं साधोः कीटकशोधिवत् // 406 // विधाय विधिना पूजामाईती श्रावकोऽर्हति / मानुष्यं सफलं कर्तुं दानशीलव्रतोद्यमैः // 407 // एकधा जिनपूजोक्ता धर्मः कार्यस्तदाज्ञया / द्वेधाऽपि सा द्रव्यभावभेदाद् द्रव्येऽपि सा द्विधा // 408 // अङ्गपूजाऽग्रपूजा च गन्धपुष्पादिनादिमा / ___परा नैवेद्यनृत्याद्यैविधा पुष्पाक्षतस्तवैः // 409 // नैवेद्यकुसुमस्तोत्रप्रतिपत्त्यादि भेदतः / चतुर्दा पञ्चधा सप्तदशधा सैकविंशधा // 410 // त्रिषु पर्यवसानेन बहुत्वस्य त्रिधाऽर्चना / विधेया सुमनोभिः साऽक्षतैः स्तोत्रैरनुत्तरैः॥४११॥ सुमनोऽर्चा सुमनसां सुमनोभवदायिका / __ वीरसेनकुमारस्येव स्याद् वश्या यथाश्रियः // 412 // . पुष्पार्चायां वीरसेनकथाऽक्षतार्चने पुनः / शुकराजकथा वेद्या बृहतश्चरिताद् विभोः // 413 // भावरूपस्तवार्चायां वनराजकथामथ / प्रथयामि स्वामिवृत्तपुण्यप्रज्ञापनादिह // 414 // भरतेऽत्रैव नगरं नगरंगद्गृहान्वितम् / क्षितिप्रतिष्ठितं नाम महामुदाद्यसूदनम् // 415 // तत्राऽभूद् युद्धकौशल्यात् कौशल्यादिनिसूदनः / __शल्यारिवद्धर्मकर्मा सुस्थितः साहसी नृपः // 416 // तत्राऽगानगरे दुर्गे दुर्गतः कुलपुत्रकः। भिक्षार्थी तत्पुराध्यक्षदानदक्षदिदृक्षया // 417 // उदारेषु च दारेषु सत्सु सत्सु भ्रमन्नयम् / प्रतिसमान्तरायेण नापद् भिक्षां स्वपापतः // 418 //