________________ 276 ] महोपाध्यायश्रीमन्मेघविजयविरचितम् [ श्रीपार्श्व भीमसिंहः सिंह इव तावद्योगी तमम्बरे / चिक्षेप निपतन भीमो यक्षिण्याऽपि धृतः करे // 103 // निनाय स्वं पदं चैवं वदन्ती तं सुधोज्ज्वलम् / नन्तुं गताऽष्टापदेऽहं धृतस्त्वं वलमानया // 104 // त्वं प्रियः प्रीतिमाधाय रक्ष स्मरशरादिताम् / चुक्षुभे न मनाम् भीमो भावयन् भवभावनाम् // 105 // . प्रवृत्तिः सुकरा नीचैर्नीरस्येव शरीरिणः / निवृत्तिर्दुष्करा ज्योतिर्धरस्योष्णरुचेरिव // 106 // इति तद्वचसा बुद्धा तममंस्त महागुरुम् / __ तावत् श्रोत्राध्वनि स्पष्टध्वनिः प्राप्तश्च वाद्यजः // 107 // शैले विन्ध्ये रैवतके श्रिया मुनिवराः स्थिताः / चतुर्मासीमुपोष्यैव नृत्यन्ति तत्पुरः सुराः // 108 // इति देवीगिरा भीमोऽप्युत्थाय नतये गतः / स्थितः सदसि तत्रैकां भुजामैक्षिष्ट विस्तृताम् // 109 // व्योम्नोऽवतीर्य सा भीमस्यासिं लात्वा नभस्यगात् / साहसादरुरोहैतामुत्प्लुत्य नृपसूरभीः // 110 // कालिकाभवनं प्राप्ता साऽद्राक्षीत् तत्र भूपभूः / कापालिकं तमेवैकनरमस्तकभेदिनम् / 111 / आहेतं शरणं मेऽस्तु भीमस्तत्सेवकोऽथवा / इति वाचं निशम्यैव क्रुद्धो भीमस्स भीमवत् // 112 // पापिनाऽनेन मन्मित्रं हन्यते मतिसागरः / तदेनं मोचयाम्यस्मादुपायेनाऽस्य निग्रहात् / 113 // बलानिपात्य तं भूमौ कुमारः स्फारविक्रमः / हन्ति कापालिकं तावत् कालिकोवाच तं प्रति // 114 // मा घातयैनं मद्भक्तं पौरुषेण रुषोज्झितः / तुष्टा वरं वृणीष्वाशु कुमारोऽपि ततोऽवदत् / 115 // जीवहिंसां त्यजातस्त्वं श्वश्रयाताऽसि किं पुरः। इत्युक्त्या कालिकाऽबुद्ध दयाधर्ममुपाश्रयत् // 116 // मतिसागरसङ्गेन हृष्टो भीमोऽप्युवाच तम् / पाश्चात्यं राज्यवृत्तान्तं सुहृत् कथय सम्प्रति // 117 //