________________ 266 / महोपाध्यायश्रीमन्मेघविजयविरचितम् [ श्रीब्रह्मदत्त प्रविश्य काम्पील्यपुरं पूर्वोदूढा मृगेक्षणाः / ___ आनाययत् कुरुमती स्त्रीरत्नं च व्यधान्मुदा // 144 // उत्पन्ने क्रमतो रत्नसङ्गमे गमनं व्यधात् / षट्खण्डं भरतं जेतुं चक्रानुक्रान्तवम॑ना / 145 / प्राच्यां प्रगममगधमस्तकाङ्गारकादयः ! दक्षिणायां बाणमुक्तवैदर्भनायिकादयः // 146 // पश्चिमायामर्बुदायाकल्लावनायसादयः / उत्तरस्यां तु पाञ्चालकुरुजाङ्गलकौशलाः // 147 / / प्रत्यगात् पुरि काम्पील्ये तत्र द्वादशवार्षिकः / नृपैश्चक्रिमहश्चक्रे देवानामपि चित्रकृत् / 148 / पूर्वमेको द्विजो देशभ्रमे मार्गस्य दर्शकः / उपकारीति तं प्राहागच्छेस्त्वं मयि राजनि // 149 / / राजाऽभूद् ब्रह्मदत्ताख्य इति श्रुत्वा स वाडवः' / काम्पील्यमागतोऽप्यन्तःप्रवेष्टुं नाभवत् प्रभुः // 150 // चक्रिणो निर्गमे पुर्या जीर्णोपानध्वजं वहन् / राज्ञोपलक्षितो भुक्तिं प्रार्थयद् भरतेऽखिले // 151 // अदापयन्नृपो भुक्तिं दीनारं दक्षिणापदे / नृपालयात् समारभ्य भुञ्जानो मुदितो द्विजः // 152 / / कदाचिदस्य दास्यैत्य प्रदत्तः पुष्पगेन्दुकः। तं दृष्ट्वा मूच्छितश्चक्री सस्मार भवपश्चकम् // 153 / / सङ्गत्यै सहजस्य प्राक् श्लोकार्द्धन समस्यया / लोकानपाठयत् पूर्वभवानुभवनं निजम् / 154 / दासौ मृगौ मरालौ च चाण्डालौ त्रिदशौ ततः / यः पूरयेत् समस्यां मे तस्मै लक्षार्द्धदोऽस्म्यतः // 155 // पुरात् पुरिमतालाख्याच चित्रजीवोऽप्युपाययौ / इभ्यपुत्रो व्रतीभूय जातजातिस्मृतिभ्रमन् // 156 // आरघट्टिकतः श्लोकशकलश्रवणाज्जगौ / एषा नौ षष्ठिका जातिरन्योन्याभ्यां वियुक्तयोः // 157 / / पूर्णश्लोकश्रुतेरेवं दत्त्वाऽस्मै पारितोषिकम् / नन्तुं मुनिं गतश्चक्री वने गोपालदर्शिते / 158 / धर्मलाभं मुनिर्दत्त्वा चकार धर्मदेशनाम् / राज॑स्त्वया जिता भूमेद्विषोऽन्तस्थान जयाऽधुना // 159 // 1. वाडवः ब्राह्मणः /