________________ महोपाध्यायश्रीमन्मेघविजयविरचितम् [ श्रीऋषभदेव'प्रियंकरस्तत्र राजा सार्थवाहो धनाऽभिधः / वसंतपुरमभ्येतुं स सार्थ समयोजयत् // 1: / / सूरयः श्रीधर्मघोषास्तोषात् पृष्ट्वा तमीश्वरम् / साथै प्रचलिताः प्रोक्तास्तेनाम्रफलदायिना // 11 // सचित्तग्रहणं जैनमुनीनां नोचितं मनाक् / अस्मद्भुक्तौ द्विचत्वारिंशद्दोषवर्जनं मतम् // 12 // मत्वा तदुक्त्या तान् शुद्धान योगीशान सार्थसङ्गतान् / आह्वाय चलितः सार्थोऽन्तराऽटव्यां स तस्थिवान् // 13 // वर्षोत्कर्षात् पङ्किला भूः किलाऽभूद्रथसंकरः / . पदमावं. सारथिभिः पथि चालितुमक्षमः [ मा ] // 14 // शंबलस्य बले क्षीणे लोकाः फलभुजोऽभवत् [न् ] / सूरयस्तु तदा शुद्धाहाराऽलम्भादुपोषिताः // 15 // सार्थेशेनाऽन्यदा दृष्ट्वा साधु[ न् ] मनसि चिन्तितम् / नेमे फलभुजस्तेनाऽमीषां नाहारसम्भवः // 16 // मयाऽऽहूताः सार्थमध्ये परं चिन्ता कृता न तत् / धिग् मां स्वाश्रितनिर्वाहाऽक्षममात्भरिं परम् // 17 // ध्यात्वेति वंदितुं प्राप्तस्तान् सूरीन् कोपवर्जितान् / दृष्ट्वा तुष्टो मुनीन् स्थाने नीत्वा खण्डघृतान्वितैः // 18 // पिष्टादिभिः प्रासुकान्नस्तांस्तदा प्रत्यलाभयत् / ___ तदा सम्यक्त्वलम्भोऽभूत् पूर्व साधुषु सङ्गमात् // 19 // (युग्मम् ) वसन्तपुरमागत्य कृत्वा कार्य क्रयादिकम् / धनः ससाधनः प्राप पुरं स्वं सुप्रतिष्ठितम् // 20 // वान्त्वा प्रान्ते स सम्यक्त्वं धृत्वा भद्रकभावनाम् / मृत्वाऽभूद् युगलीमर्त्यस्ततः सौधर्मभान सुरः // 21 // ततश्च्युत्वा विदेहेऽभून्मागधः पश्चिमाश्रिते / विजये मंगलावत्यां चन्द्रकान्तो नृपाङ्गजः // 22 // 1. बृ. त्रि. प्रसन्नचन्द्रः। 2. गन्धिलावत्याम् (बृ. त्रि.) 3. राज्ञः शतबलाख्यस्य (बृ. त्रि.)