________________ 218 ] महोपाध्यायश्रीमन्मेघविजयविरचितम् [ श्रीहरिषेणचक्रिवामां दंष्ट्रामद्यःस्थानां बली बलिरुपादितः / . शेषे दन्तानाकिनोऽन्ये जगृहुर्मुहुरास्तिकाः // 51 // श्राद्धानां मार्गणे देवैर्दत्ताः कुण्डत्रयाऽग्नयः। __ ततः प्रभृत्यभूव॑स्ते ब्राह्मणा अग्निहोत्रिणः // 52 // यैर्भस्म लब्धं तल्लेपात् तापसा अपि जज्ञिरे / चितास्थाने मणिमयं स्तूपत्रयं दधुः सुराः / 53 / एवं देवगणः सिद्भकल्याणकमहोत्सवम् / निर्माय शाश्वतजिनान् नन्तुं नन्दीश्वरे ययौ // 54 // सुधर्मायां सभायां ते स्तम्भे माणवके शुभे / समुद्के वज्रमये न्यधुदंष्ट्रां सुराधिपाः // 55 // यस्य यावद्भवत्यायुस्तावद् वर्षसहस्रके / गते ह्याभोगसम्पन्नो हारः स्याद्यसदां तदा / 56 / प्रतिमा भगवदंष्ट्राः प्रपूज्य कुर्वतेऽशनम् / ___ मनोगम्यं सुरोत्पत्तौ तासां नानार्चनाविधिः // 57 // युद्धेऽथवा सुरेन्द्राणां परस्परमुपस्थिते / दंष्ट्रास्नात्रजलासेकात् शाम्यति क्रोधपावकः // 58 // तासां काले पुद्गलानां विशीर्णत्वेऽन्यदंष्ट्रिकाः / / गृह्यन्तेऽप्यर्हतामेवं नित्या ज्ञेया परम्परा // 59 // इति श्रीलघुत्रिषष्टीये चरिते श्रीनमिनाथचरितं सम्पूर्णम् // श्रीः ग्रं. 59 श्लोकाः श्रीहरिषेणचक्रिचरितम् / श्रीनमिविहरनासीत् तदा चक्रधरोऽप्यभूत् / हरिषेणस्तत्प्रबोधोऽप्यत्रैवौचित्यमर्हति // 1 // भरतेऽस्मिन् अतिस्मेरनरे नरपुरे पुरा / नराभिरामो भूमीशः शमी ख्याताऽवदातधीः // 2 // विरक्तस्त्यक्तसंसारः प्रपद्य व्रतमुद्यतः / सनत्कुमारे देवोऽभून् महद्धिस्तेजसां निधिः // 3 // पश्चालदेशे काम्पील्यं काम्पील्यास्थां' भजत्यदः / यत्र राजा हरिः साक्षाद् रक्षको दक्षपत्तिभिः // 4 // तस्य प्रिया नाम मेरा क्रमे राज्ञोऽतिभक्तिभाक् / / रूपादेराश्रयः स्वैराभिसारोऽस्याः कदापि न // 5 // 1. कां। पीडयां पीडायोग्यां आस्थां सभां अदो नगरं भजति सेवते न कामपीत्यर्थः।