________________ 206 ] महोपाध्यायश्रीमन्मेघविजयविरचितम् [ श्रीपद्म विलप्य बहुधालापै रामः सुस्थितमानसः / जयभूषणमानम्यापृच्छत् स्वभववैभवम् // 1109 // भव्योऽसि केवलज्ञानं प्राप्याऽत्रैव भवे शिवम् / गमिष्यसि तव स्मृत्याऽन्येऽपि सेत्स्यति मानवाः // 1110 // बिभीषणो बभाषेऽथ स्वामिन् कामितपूरकः / प्रसादेनाऽस्मदादीनामाख्याहि प्राग्भवस्थितिम् // 1151 // आख्यदाख्यानकं पूर्व वृत्तं चित्तं कुरु स्थिरम् / दक्षिणे भरतार्द्धऽत्र नाम्ना क्षेमपुरं वरम् // 1112 // नयदत्तो वणिक् तस्य सुनन्दायां सुतद्वयम् / धनदत्तो वसुदत्तो याज्ञवल्क्यस्तयोः सुहृत् // 1113 // श्रेष्ठी सागरदत्तोऽत्र पुत्रो गुणधरोऽस्य तु / पुत्री गुणवती दत्ता धनदत्ताय तेन सा // 1114 // मात्रा रहः पितुर्दत्ता पुनः श्रीकान्तवाणिजे / ___ याज्ञवल्क्यद्विजो मत्वा तन्मित्राभ्यां न्यवेदयत् // 1115 // वसुदत्तः प्राणमुक्तं श्रीकान्तं विदधे क्रुधा / ___ म्रियमाणेन तेनाऽपि निहतो वसुदत्तकः // 1116 // धनदत्तो भ्रातृदुःखाद् गृहान्निर्गत्य पर्यटन् / मुनेर्वचनतः क्वापि परमः श्रावकोऽजनि // 1117 // मृत्वा सौधर्मदेवत्वं प्राप्य च्युत्वा सुतोऽभवत् / मेरोः प्रियायां धारिण्यां नाम्ना पद्मरुचिर्वणिक् // 1118 // अन्यदा गोकुले स्वीये गच्छतादशि मार्गगः / जरवृषो म्रियमाणोऽश्वादुत्तीर्य कृपालुना // 1119 // श्रावितः स नमस्कारं मृत्वाऽयं तत्प्रभावतः / छत्रछायनृपस्याऽऽसीत् श्रीदत्तायां सुतो वरः // 1120 // वृषभध्वजनामाऽयं क्रीडन् महापुरान्तरे। जरवृषभभूदृष्टेर्जातिस्मरणमाप्तवान् // 1121 // कारयित्वा तत्र चैत्यमालेख्यालेख्यमस्य च। जरवृषस्य जिज्ञासुरारक्षानादिशत् त्विदम् // 1122 //