________________ 176 / महोपाध्यायश्रीमन्मेघविजयविरचितम् [ श्रीपद्म सुग्रीवे क्रीडितुं पुर्याः कदाचिनिर्गते बहिः / प्राविशत् कूटसुग्रीवः पुरान्तोंपलक्षितः / 645 / वलिते सत्यसुग्रीवे द्वास्थैरन्तःपुरे गतिम् / न्यवारयद् वालिसनुरनूनसाम्यतो द्वयोः / 646 / चतुर्दशाऽक्षौहिणीनां सैनिकाः सङ्गरोत्सुकाः / __ सत्यसुग्रीवतो बाह्या विटसुग्रीवतः परे // 647 // सादिना युयुधे सादी वादीव प्रतिवादिना / निषादिना निषादी चाहूतोऽपि रथिना रथी // 648 // अन्योन्यतर्जनागर्जग नैरूजसोऽर्जनैः / सज्जनैर्दन्तिनां क्लृप्तैर्विदधेऽसजने रणः // 649 // साहसात् कूटसुग्रीवः कुर्वन्नामैव सान्वयम् / सत्यसुग्रीवबन्धाय ग्रीवायां स्वं धनुबंधात् // 650 // उत्प्लुत्य प्लवगाधीशः सगुणं निर्गुणं चिकीः / कूटसुग्रीवरचनां विफलीकृतवान् कृती / 651 / विद्यायुद्धैः शस्त्रयुद्धः सेनायुद्धैश्च दम्भिनम् / नाभिनद् बहुधोपायैः सुग्रीवो ग्लानिमासदत् // 652 // हनूमन्तं समाहूय भूयस्तेजः प्रदर्शयन् / युयुधे बाह्यसुग्रीवस्तथाऽपि न जिगाय तम् / 653 / साहाय्यं कर्तुमत्रार्थे लङ्काभर्तुः पराक्रमः / परं स परनारीषु रक्तस्त्यक्तकुलत्रपः // 654 // तदा श्रये श्रियां नाथं रामं सौमित्रिणा समम् / विचिन्त्येति विराधं प्राक् सुग्रीवः प्राहिणोज्जनम् // 655 // श्रीरामः शरणं मेऽस्तु रिपोर्भङ्गाय साम्प्रतम् / विराधस्तत्समाचारं श्रीरामाय न्यवेदयत् // 656 // भग्ने रिपौ त्वत्प्रभावात् सुस्थितं राज्यमाश्रितः / करिष्ये जानकीशुद्धिं सुग्रीवोऽभ्येत्य चोक्तवान् // 657 // किष्किन्धां राघवो निन्ये सुग्रीवेण सलक्ष्मणः / सुग्रीवौ दारुणरणमारेभाते परस्परम् / 658 / सारूप्यमनयोः पश्यन्नधिज्यधन्वनो ध्वनेः / रूपान्तरकरी विद्यां रामोऽनाशयदञ्जसा // 659 // प्रकटं साहसगति राघवः प्राह साहसी / धिक्त्वां रिम्सुमन्यस्योदारदारेषु चौरवत् / 660 / रामो निहत्य तं पापं राज्ये सुग्रीवभूपतिम् / निवेशयामास लोकानन्ददानादिनाऽचिंतः // 661 //