________________ 172 ] महोपाध्यायश्रीमन्मेघविजयविरचितम् [श्रीपन व्रतेच्छुः सुव्रतविभोः पुरन्दरयशाः स्वसा / नीता शासनदेव्याऽर्हत्पार्श्वे सा व्रतमाददे // 585 // दण्डकारण्यमेतत् तु प्रथितं कथितं तव / दण्डकाद् भूपतेजातं विषभृद् ऋषिघाततः / 586 / दण्डकोऽयं भवान् भ्रान्त्वा नरकादिषु योनिषु / गन्धाख्योऽयमभूत् पक्षी महारोगी स्वकर्मभिः // 587 // अस्याऽस्मदर्शनाज्जातिस्मरणं समजायत / ___ अस्मत्स्पौषधीलब्ध्या रोगाश्च क्षयमासदन् // 588 // तच्छ्रुत्वा मुदितः पक्षी श्रावकोऽभून् मुनी नमन् / जीवघातपलाहाररात्रिभोज्यान्यवारयत् // 589 // इत्यूचतुर्मुनी राममेष सार्मिको हि वः / साधर्मिके च वात्सल्यमुक्तं श्रेयस्करं जिनैः // 590 // तं जटायुं सहादायाऽऽरुरोह राघवो रथम् / ससीतालक्ष्मणो देशान्तरं प्राप यथोत्तरम् // 591 // इतः पाताललकेशखरचन्द्रणखात्मजः / शम्बूकनामा सुंदस्याऽग्रजो विद्यामसाधयत् / 592 / सूर्यहासासिसंसिद्धथै सा विद्या द्वादशाब्दिका / सप्ताहोत्तरिका सिद्धा भवेदेकानभोजिनः // 593 // विशुद्धात्मा ब्रह्मचारी साधको विजितेन्द्रियः / अधोमुखो वटशाखानिबद्धचरणद्वयः // 594 // एवं साधयतस्तस्य द्वादशाब्दी ययौ पुनः / चत्वारि दिवसानीयुः सूर्यहासोऽन्तिके स्थितः // 595 // अत्रान्तरेऽथ सौमित्रिस्तत्राऽगाद् दैवनोदितः / सूर्यहासमसिं दृष्ट्वाऽलुनात् तेन वनद्रुमम् // 596 // वंशजाल्याश्छेदनेऽन्तः शम्बूकस्य शिरोऽच्छिनत् / तत्रायाता चन्द्रणखाऽस्तोकशोकमियाय सा // 597 // पश्यन्ती घातकपदश्रेणी तदनुगामिनी / अग्रे दृष्ट्वा रामरूपं कामिनी वश्यतामगात् // 598 // कन्यारूपं विकुर्वाणा स्मरवाणाहता सती / पृष्टा रामेण काऽसि त्वमरण्ये कथमागमः // 599 //