________________ चरितम् ] लघुत्रिषष्टिशलाकापुरुषचरितम् [ 139 तद् वृत्तान्तमथाकर्ण्य दधावे सुरसुन्दरः / कनकेन बुधाख्येन जनकेन समन्वितः // 88 // मिथः समागमे युद्धादवरुद्ध पथि क्षितौ / नभोगा अप्ययुद्धयन्त च्छेदयन्तः शरान् शरैः // 89 // अशस्त्रान् क्रमतः कृत्वा रावणस्तान् रुषारुणः / प्रस्वापनास्त्रेण सर्वान् मोहयामास निद्रया // 90 // नागपाशैनिबद्धथैतान् मुमोच प्रेयसीजनैः / ___ याचितः पितृभिक्षां द्राग् ययुः स्वं पदमप्यमी // 91 // स्वयं स्वयंप्रभपुरीमाप प्रतापभास्करः / रावणोऽथ तडिन्मालां कुम्भकर्णस्तदोढवान् // 92 // महोदरः कुम्भपुरे श्वसुरः प्रियचिन्तकः / सुरूपनयनाच अस्सम्बन्धान् मुमुदेतराम् // 93 // ज्योतिष्पुरेशस्तत्रैव वीरो नन्दवतीप्रियः / विभीषणः पर्यणेषीत् तत्सुतां पङ्कजश्रियम् // 94 // मन्दोदर्या राषणस्य प्रथमः शक्रजित् सुतः / __द्वितीयः कियता कालेनान्तरे मेघवाहनः // 95 // लङ्काऽलङ्कारकृत् श्रीदः कुम्भकर्णेन निर्धनः / / धाट्यादिना सानुजेन स्वभुजेन व्यधीयत // 96 // धनदादिष्टदूनोक्त्या भृशं रुष्टो दशाननः / कृत्वा वैश्रवणं युद्धाशक्तं लङ्कां तदाऽग्रहीत् // 97 // पराजयाद् वैश्रवणः श्रामण्यग्रहणात् तपः / तप्त्वा कर्मक्षयं कृत्वा शिवसम्पदमाददे // 98 // विमानं पुष्पकं तस्याऽधिरुह्य नयवानयम् / संमेतशैले प्रतिमा नन्तुं जगाम रावणः // 99 // प्रहस्तस्याग्रहेणाऽत्रापतन्तं वनकुञ्जरम् / सप्तहस्तोचमागृह्याऽध्यारुरोह दशाननः // 100 // एकदा कोऽपि विद्याभृत् पवनः प्राह रावणम् / स्वामिन्नामितदुष्टारिः शृणु मद्वाचमुल्वणाम् // 101 // पाताललङ्कानगरात् किष्किन्धां साधितुं गतौ / किष्किन्धितनयावर्करजा ऋक्षरजा इति // 102 // यमस्ताभ्यां रणं कृत्वा बबन्ध स्कन्धबन्धुरः / * उभावपि च कारायां क्षिप्तौ त्वत्सेवकोत्तमौ // 103 //