________________ चरितम् ] लघुत्रिषष्टिशलाकापुरुषचरितम् [ 103 कृतपारणकर्माऽयमन्यदोद्यानपालतः / शुश्राव श्रावकोत्तंसः श्रीमद्घनरथागमम् // 353 // चचाल सेनया युक्तो दत्त्वाऽस्मै पारितोषिकम् / गर्जयस्तूर्यनिर्घोषैरम्बरं तर्जयन् रिपून् / 354 / जिनं नत्वा यथास्थानं मत्वा तत्त्वार्थबद्धधीः / / तस्थौ स्वस्थमनाः श्रोतुं गिरं श्रीत्रिजगद्गुरोः // 355 // जगाद श्रीजगन्नाथः पाथष्पतिगभीरगीः / यः पुण्यकृत् सुखानि स्युः सूरस्येवास्य भूरिशः // 356 // अत्र वत्सराजकथानकम्निशम्य नृपतिधर्म मेघसेनाङ्गजं निजे / राज्ये तथा यौवराज्ये न्यास्थत् दृढरथात्मजम् // 357 // चतुःसहस्रया भूपानां सप्तशत्या तनूभ्रुवाम् / स बान्धवो धवः पृथ्व्याः लेभे मेघरथो व्रतम् // 358 // जिनेन सार्द्ध कतिचित् समाविहृत्य सत्यभाक् / सिद्धेऽर्हति धनरथे तत्पथे सत्कथे स्थिरः // 359 // वकैलक्षं दीक्षायां विंशतिस्थानकं तपः / कृत्वाऽर्हन्नामकर्माऽपि निश्चिकाय मुनीश्वरः // 360 // सिंहनिष्क्रीडिततपः प्रान्ते कृत्वा शनैः शनैः / .. कृताऽनशनतः प्राप सर्वार्थसिद्धिदेवताम् // 361 // ___ इति श्रीलघुत्रिषष्टीये श्रीशान्तिचरिते दशमैकादशभववर्णनम् // श्रीः अथ श्रीवृषभस्याऽऽसीदहेतः कुरुसंज्ञया / समाज्ञया जगद्गेयः स्थेयः सर्वनयाश्रये // 362 // 'तस्येशस्य प्रशस्यश्रीर्देशो गङ्गाप्रदेशभाक् / - पुण्यः पुण्यनृणां कृत्यैः शरण्यः शरणार्थिनाम् // 363 // स्वस्तिभाग् हस्तिनामाऽस्य तनयः सनयः क्षितौ / निवेशितं तेन राज्ञा नगरं हस्तिनापुरम् // 364 // शश्वद्विश्वजयख्यातः प्रज्ञावज्ञातवाक्पतिः / विश्वसेनः पतिः पुर्याश्चातुर्यात् राजहंसवत् / 365 / अचिरारुचिराकृत्या शचीव पीवरस्तनी / अधस्तनीकृताः सर्वा नागकन्याऽनया नयात् / 366 /