________________ चरितम् ] लघुत्रिषष्टिशलाकापुरुषचरितम् . [ 97 ज्ञानावरणकं मन्दो दर्शनावरणं तमः / वेदनीयं बुधो मोहो मङ्गलप्रकृतिमतः // 261 // आयुर्जीवो रविर्नाम गोत्रकर्म हिमद्युतिः / शुक्रो विघ्नमिति ज्योतिःशास्त्रादेवोत्तरं भवेत् / / 262 // श्रुत्वाऽऽगमवचो जैनं पुत्र राज्ये न्यवेशयत् / सहस्रायुधनामानं जिनोपान्ते व्रतं ललौ / 263 / चक्रिणा सह भूपालाश्चतुःसहस्रसम्मिताः / तथा सप्तशती पुत्रा जगृहुव्रतमुत्तमम् // 264 // विहरनन्यदा सिद्धिशैलोपरि शिलातले / स्थितो वैरोचनस्तम्भे प्रतिमायां स चक्रभृत् / 265 / तत्राऽश्वग्रीवतनयौ मणिकुम्भमणिध्वजौ / भ्रान्त्वा बहुभवान् देवावुपनिढुवतुर्भृशम् / / 266 // व्याघ्रभसर्पपैशाचरूपैर्नरनेकशः / उपसर्गे कृते किश्चिन्न चुक्षोभ क्षमाक्षमः // 267 // तावत् तत्रेयतुर्देव्यौ रम्भातिलोत्तमे मुनिम् / नन्तुं तयोर्दर्शनतः काकनाशं प्रणेशतुः // 268 / / नृत्यं कृत्वा भृशं स्तुत्वा नत्वा ते दिवमीयतुः / __ वार्षिकी प्रतिमां कृत्वा वज्रायुधमुनिर्ययौ // 269 // क्षेमकरजिने मोक्षं प्राप्ते स्वनगरे क्रमात् / सहस्रायुधभूपालस्तं ननाम महोत्सवैः // 270 // पुत्रं शतबलं भूपं कृत्वा प्रव्राजनं श्रितौ / ईषत्प्राग्भारशैलस्थौ तातो जातश्च तेपतुः // 271 // पादपोपगमेनाऽथाऽशनेन क्षिप्तदुष्कृतौ / अवेयकं चानवमं नवमं सममाश्रितौ // 272 // इति श्रीलघुत्रिषष्टीये शान्तिनाथस्य अष्टमनवमभववर्णनम् // अस्यैव जम्बूद्वीपस्य प्रागविदेहेषु सुन्दरे / विजये पुष्कलावत्यां नगरी पुण्डरीकिणी / 273 / राजा धनरथाख्योऽर्हन प्रिया प्रीतिमती तथा / मनोहरा द्वितीयाऽस्य तत्राद्याकुक्षिमाश्रयत् // 274 // एकत्रिंशत्सागरायुर्वज्रायुधः प्रपूर्य सः / मेघस्वप्नादन्विताह्वो नाम्ना मेघरथः सुतः // 275 // सहस्रायुधजीवोऽपि मनोहराङ्गजोऽजनि / नन्दनौ नन्दमानौ तौ जातावानन्दको पितुः // 276 // कलाबलाभ्यामाश्लिष्टौ शिष्टौ प्रकृतिसंस्कृतौ / . तारुण्यपुण्यलावण्यात् सूर्याचन्द्रमसाविव // 277 // 'ल. त्रि. 13