________________ 90 ] महोपाध्यायश्रीमन्मेघविजयविरचितम श्रीशान्तिनाथ तं वासुदेवं विज्ञाय प्रणयात् प्रणता नृपाः / ___स नेमे जिनचैत्यानि पश्यन् कीर्तिधरं मुनिम् // 153 // एवं क्रमेण रत्नानि सिद्धान्येवार्द्धचक्रिणः / __ वनमाला, गदा, खगं, चतुर्थः कौस्तुभो मणिः // 154 // पञ्चमः पाश्चजन्याख्यः शंखः, शाङ्ग धनुस्तथा / चक्रं, तैरर्द्धभरतं साधयामास साहसी // 155 // वर्षोपवासी सत्कीर्तिः स्तुतो विद्याधराधिपः / ___ उत्पन्नकेवलज्ञानो यात्रां चक्रेऽस्य विष्णुना // 156 // शुश्राव देशनोद्देशं संसाराऽसारतादृशः / राजन् मिथ्यात्वमाद्यं तद्वितीयाऽविरतिर्जने // 157 // कषाया दुरुपायास्ते योगा वाकचित्तकायजाः / प्रमादाः सर्वजीवानां पञ्चैते बन्धकाः स्मृताः // 158 / / सम्यक्त्वाद् याति मिथ्यात्वं रवेरिव घनं तमः / नश्येदविरतिः प्रीत्या प्रत्याख्यानविधानतः / / 159 // कषायाः कर्मसंसर्गहेतवो देहिनां मताः / विभीतकं स्फाटिकी च वस्त्राणामिव रञ्जने // 160 // ये वाङ्मनःकाययोगाः प्रयोगास्ते भवभ्रमात् / दत्तसादाः प्रमादाश्च हेयाः स्युविषयाः सताम् // 161 // प्रतिविष्णुसुताऽप्राक्षीत् कनकश्रीः प्रभो! कथम् / ___ मन्निमित्तः पितुर्मृत्युवियोगोऽभूत् स्वबन्धुभिः // 162 // मुनिरूचे शृणु श्राद्धि ! धातकीखण्डमध्यगे / भरते प्राग्भवे शंखपुरं स्वःपुरभासुरम् // 163 // श्रीदत्ता काऽपि तत्राऽभूत् दारिद्रयोपद्रुताङ्गना / ___ परकर्मकृताजीवा सा धर्ममशृणोन्मुनेः // 164 // तेपे तदुक्त्याऽसौ धर्मचक्रवालाह्वयं तपः। आदौ प्रान्तेऽष्टमं तत्र त्रिंशत् 'सप्तोत्तरान्तरे // 165 // 1. सप्तोत्तरा त्रिंशत् सप्तत्रिंशत्