________________ चरितम् ] लघुत्रिषष्टिशलाकापुरुषचरितम् त्रिपृष्ठः शिष्टधीः सिंहवृत्तं पृष्ट्वाऽथ रक्षकान् / निरस्त्रो रथमुत्सृज्य सिंहमाहूतवान् गिरा // 46 // गिरेरुत्पत्य सिंहोऽपि तं जिघांसुः कृतोत्क्रमः / आगच्छन्निहतस्तेनौष्ठयोः स्फाटनकर्मणा // 47 // सिंहः साहसवान् दूतः शिशुनाऽहं हतो महान् / सारथिनरसिंहोऽयमिति किं दूयसे पशो // 48 // इत्युक्तिश्रवणात् सिंहो विपन्नः सन्नगात्रवान् / भ्रातरौ जग्मतुः कार्य कृत्वा सवितुरन्तिके // 49 // त्रिपृष्ठं छन्नमाकार्य स्वयंप्रभा विवाहिता / समीहितविधौ को वा विलम्ब कुरुते सुधीः / 50 / ततः क्रुद्धेन भूपेनादिष्टा दिष्टाऽवलम्बिना / सामन्ताः सचिवाः बद्धा आनेया ज्वलनादयः // 51 // लीलयैव जितेष्वेषु त्रिपृष्ठः श्वसुरालये / गत्वाऽयुद्धयत सेनाऽस्य राक्षसाद्यैरभज्यत // 52 // त्रिपृष्ठः शङ्खनादेन पटूचक्रे स्वसैनिकान् / स्वसेनानाशने रुष्टोऽश्वग्रीवो रणमीयिवान् // 53 // दिशस्तमोभिः संरुद्धा जगर्ज गर्जगजितैः / नभस्तलं सूरकोटिः पतितेति भुवीjया // 54 // विष्णुश्च प्रतिविष्णुश्च युयुधाते परस्परम् / चक्रमश्वग्रीवमुक्तं त्रिपृष्ठस्य करे स्थितम् // 55 // तेनाऽश्वग्रीवभूपस्य ग्रीवा छिन्नाऽथ विष्णुना / .. जातो जयजयारावस्तत्सैन्येऽन्यत्र दैन्यवाक् // 56 // पुष्पवृष्टिः कृता देवैर्वासुदेवोऽयमादिमः / देवसान्निध्यतः सर्वामुर्वीमसाधयद्धरिः // 57 // छत्रीचक्रे कोटिशिलामभिषिक्तः सुरैर्नृपैः / ज्वलनः श्वसुरः स्वीयः स्थापितः खेटपुङ्गवः // 58 // ज्योतिर्मालाऽर्ककीर्तेश्चाभवत् प्रिया तदाज्ञया / - पुत्री सा मेघमालिन्याः स्वसा विद्युत्प्रभस्य सा / ' 59 / / श्रीषणजीवश्चयुत्वाऽगात् ज्योतिर्मालोदरान्तरे / / सूचितो रविणा स्वप्ने समयेऽसूत सा सुतम् // 60 // नामाऽस्याऽप्यमिततेजाः पिता चक्रे पराक्रमात् / क्रमात् सर्वान् रिपून जित्वा जातश्चानन्दकृत् पितुः // 61 //