________________ पटले, 56-57 श्लो.] मण्डलवर्तनं नाम महोद्देशः ___इदानीं ज्ञानवज्र उच्यते। अत्र 'पूर्वहकारोऽस्वरः, ततोऽकारः, ततो विसर्गः, ततोऽनुस्वारः, ततो दीर्घ 'आकारः। एवं पूर्ववद्विसईद् उकारः। पूर्वस्वरेण गुणो हकारेण संयोगः / अपर आकारमकारयोर्लोपः। एवं त्रिगुणात्मको "होकार इति। ह अ उ इत्युच्यते। एवं ज्ञानवज्र गुणत्रयम्-अविद्या, संस्कारः, विज्ञानम् / कायवज्र-नामरूपम्, षडायतनम्, स्पर्शः। वाग्वजे-वेदना, तृष्णा, उपादानम् / चित्तवजे-भवो जातिर्जरामरणम् / बिन्दुरूपवशादिति। एवमविद्यादीनां जनक परमसुखकरं ज्ञानवज्रं चतुर्थमिति मन्त्राणां योनिः सर्वत्र द्वादशाकारकायवाक्चित्तज्ञानवज्रमिति भगवतो नियमः // 56 // इदानीं मन्त्रचिह्न'न्यास उच्यतेहुंकारो विश्ववर्णे जिनपतिकमले चन्द्रसूर्याग्निमूनि . दिक्पत्रेष्वादिशून्यं विदिशि च दलके हादिशून्यं चतुर्धा / ईशे नैऋत्यकोणे शिखिनि च पवने कायवाक्चित्तरागं हीकाराद्यं घटानां भवति च दशकं हं ह इत्यत्र चान्ते // 57 // इह सर्वत्र रजोमण्डले त्रिविधो न्यासः, चन्द्रसूर्यासनेषु स्थूल सूक्ष्मपरभेदेन / तत्र परभेदो मन्त्रबीजन्यासः, सूक्ष्मभेदो मन्त्रबीजपरिणतो वज्रादिचिह्नन्यासः, स्थूलभेदो वज्रादिचिह्नपरिणतो देवतारूपन्यासः। इत्येवं यथानुक्रमेण मन्त्रबीजन्यासे कृते सति चिह्नन्यासाद्यं वेदितव्यमिति नियमः। तेन अस्मिन् मन्त्रबोजन्यासः प्रधानत्वेनोक्त इति। 'हुंकारो विश्ववर्णे हरितवर्णे[ 197a ] जिनपतिकमले चन्द्रसूर्याग्निमूनि इति / इह चन्द्रसूर्यराहूणां योगोऽमावास्यान्ते ग्रहणकाले, तदेव 'चन्द्रसूर्याग्निसंयुक्तं मण्डलमासनम् / अध्यात्मनि ललनारसनाऽवधूतीसंयुक्तं हृत्कमलम्, तस्य कणिकायां चन्द्रसूर्यराहुमूनि १हुंकारबीजं लिखेद् नीलरजसा। अथवा तत्परिणतं नीलवजं त्रिशूकं लिखेदिति / गुह्यतन्त्रे रजोमण्डले देवतारूपं न लेख्यं लोकावध्यानपरिहारायेति / अधिपतिबीजन्यासः। ततः पद्मदले दानादिपारमितान्यासः कर्तव्यः। दिपत्रे"स्वादिशून्यमिति। पूर्वपत्रे अ, १२दक्षिणे अः, उत्तरे अं, पश्चिमे आ इति / 1 अथ चिह्नानि पूर्वपत्रे धूपदर्वी, दक्षिणे प्रदीपः, उत्तरे नैवेद्यम्, पश्चिमे शङ्ख इति। इह वक्ष्यमाणे "यच्चिद्रं यस्य सव्ये "भवति करतले सात्र मुद्राब्जहीना" इति वचनात् "चिह्नन्यासो वक्ष्यमाणनियमेनेति / एवं विदिशि च दलके हाविशून्यं चतुर्धेति / 15 1. ग. च. पूर्व / 2. भो. Thun Nu ( ह्रस्व ) इत्यधिकम् / 3. भो. आः / ..4. ग. च. भो. अपरमिकाराकारयोः / 5. च. होः, ग. ०कोऽका। 6. च. 'चिह्न नास्ति / 7. ग. च. सूक्ष्मा / 8. क. ख. ग. च. हंकारो। 9. छ. चन्द्राग्नि सं० / 10. क. ख. ग. च. हूंकार / 11. भो, A Sogs ( अ आदि)। 12, ग. च. ..... दक्षिणपत्रे। 13. भो. Yan Na (अथवा)। 14, क. ख. भगवति / 15. भो. Phyag rGya (मुद्रा)।