________________ पटले, 188-196 श्लो.] नानासाधनमहोद्देशः 243 एवं पूर्वोक्तचक्रेष्वपि भवति सदा लेखनं साध्यनाम्मः एतत्सर्व नराणां जिनपतिवचसा सिद्धयते मे प्रसादात् // 191 // बाह्ये प्रथमदले श्री, द्वितीये व, एवं क्रमेण व घो ष स म न्त भद्र हूँ फडिति द्वादशाक्षराणि शेषं पूर्ववत् / सर्वमिति / साध्योऽस्मिन् कणिकायामिति / साध्यनामाद्यक्षरं कर्णिकायाम् / ततो जापकाले चोवनं श्रीसमादेरिति / ॐ श्रीवज्रघोष समन्तभद्र / अमुकस्य शान्ति कुरु कुरु नमः। एवं पुष्ट्यादिके स्वाहा हूँ फट् वौषट् फडिति अन्ते दातव्यम्, यन्त्रलिखनेऽप्यन्तिमे पत्रे। एवं पूर्वोक्तचक्रेष्वपि भवति सदा लेखनं साध्य[307a] नाम्नः / एतत्सर्व नराणां जिनपतिवचसा सिद्धयते मे प्रसादादिति यन्त्रलिखनविधिः // 191 // यः शब्दो हृत्प्रदेशे भवति वरनणां श्रूयते श्रोत्ररन्ध्रस्तस्मिश्चित्तं नरस्य व्रजति समरसं योजितं चैकभूतम् / यं शब्दं जीवलोके वदति च भवजस्तत्तदेव शृणोति विज्ञानं चैव दूराच्छ्रवणमपि विभोर्योगिना भावनीयम् // 192 // कृत्वा पर्यङ्कबन्धं विकसितवदनोऽन्योन्यदन्तं स्पृशेन आकृष्टो बाह्यवातस्तदमृतसहितो नाभिमध्ये प्रविष्टः / 15 सन्तापं क्षुत्पिपासां हरति वरतनौ सन्निरुद्धो विषं च श्वेतो बिन्दुललाटे स्वरपरिकरितो मुञ्चमानोऽमृतं वा // 193 // घ्राणे रन्ध्रद्वयेन त्वपि पिहितमुखे बाह्यवातः समस्तः प्राणेनाकृष्य वेगात् तडिदनलनिभो घट्टितोऽपानवायुः / कालेनाभ्यासयोगाद् व्रजति समरसं चन्द्रसूर्याग्निमध्ये अन्नाद्यं क्षुत्पिपासामपहरति तनो चामरत्वं ददाति // 194 // स्वच्छायामातपस्थामपरमुखरवे स्तब्धदृष्टयाक्लोक्य पश्चाद्वयोमाभिवीक्ष्येत् समरसपुरुषो दृश्यते धूम्रवर्णः / षण्मासाभ्यासयोगादवनिगतनिधिं दर्शयेद् भूमिछिद्रं वृक्षच्छायां प्रविश्य त्वथ गगनतले भाविता बिन्दुमाला / / 195 // 25 या शक्तिर्नाभिमध्याद् वज्रति परपदं द्वादशान्तं कलान्तं . सा नाभौ सन्निरुद्धा तडिदनलनिभा दण्डरूपोत्थिता च / 1. च. 'हूँ"फडिति' नास्ति /