________________ 230 विमलप्रभायां [ साधनाबाह्ये रेखात्रये वै दशदिशि वलये क्रोधचिह्नानि तद्वत् प्रेतं तस्यावसव्ये त्वसिकरकमलं मण्डलात् सव्यपादम् // 161 // ततस्त्रिकोणे कुण्डे पूर्वोक्ते 'यवरुणरजसा गर्भपयं रक्तं तत् सचिह्नमिति बाणचिह्न कणिकायाम्, अथवा "सर्वकर्मणि वज्रम्" इति वचनात् रक्तवज्रम्। पत्रे चिह्न जिनानामिति / पूर्व पत्रे खङ्गः, दक्षिणे रत्नम्, उत्तरे पद्मम्, पश्चिमे चक्रमिति / विशि विदिशि तथेति / देवतीनां स्वचिह्नमिति / पूर्वोक्ते मातृदोषे यथाग्नौ कतिका. दैत्यपत्रे वज्राङ्कशः, वायव्ये वज्रपाशः, "ईशे त्रिशूलम् / बाह्ये रेखात्रये वै दशदिशि वलये क्रोधचिह्नानि तद्वदिति / यथा तथागतानां तथा दिक्षु, यथा देवीनां तथा विदिक्ष ऊर्चे उष्णीषस्य वज्रम्, अधःसुम्भराजस्य पर्शरिति, त्रिप्राकाराणां रक्षणायेति। एवं रजोमण्डले पूर्वोक्तविधिना चिह्नानि दत्त्वा श्मशानभूम्यां मण्डले कलशादिकं संस्थाप्य प्रतिष्ठां कृत्वा गन्धादिभिरिष्टदेवतानां पूजां कृत्वा क्षेत्रपालादीनां बलिं दत्त्वा ततस्तं प्रेतं तस्यावसव्य इति कुण्डस्योत्तरे रजोमण्डलस्य दक्षिणद्वारस्य दक्षिणे / एवं मण्डलकुण्डयोर्मध्ये प्रेतं सव्यपादमिति दक्षिणपादमुत्तरशिरः। असिकरकमलमिति खड्गहस्तमुत्तानकं त्रिरेखापरिवेष्टितम् // 161 // [299b] पूर्वोक्तान्मातृदोषाज्जिनपतिकुलिशैरात्मरक्षां प्रकृत्य मन्त्री कुण्डस्य सव्ये सरुधिरपलले.ममेवं प्रकुर्वन् / ॐ ह्रीं केंहूँ फडन्तं दशगुणितशतं होमयेत् तस्य मन्त्रं , बद्ध्वा वज्रासनं वै त्वमरगिरिरिवाकम्प एवार्धरात्रम् // 162 // एवं पूर्वोक्ताद् मातृदोषाद मण्डले जिनपतिकुलिशैः पूर्वोक्तरात्मरक्षां प्रकृत्य मन्त्री कुण्डस्य सव्ये सरुधिरपललैहोममेवं प्रकुर्वनिति / अत्र कुण्डे क्षत्रियगृहाग्नि खदिरकाष्ठेः प्रज्वाल्य ततः पूर्वोक्तविधिना पावकावाहनादिकं कृत्वा देवतायोगेनास्य मन्त्रेण महामांसं सरुधिरं दशशतगुणितमिति सहस्रमेकं होमयेत् तस्य मन्त्रमिति / ॐ ह्रीं " है फट, इत्ययं तस्य मन्त्रः। अनेनापि तस्य न्यासः कार्यः / ललाटे ॐ, कण्ठे ह्रीं, हृदये कें, नाभौ हूँ, गुह्ये फडिति न्यासः। बद्ध्वा वज्रासनं वै अमरगिरिरिवाकम्प एवार्धरात्रं यावत् प्रहरमेकं होमयेदिति // 162 // पूर्णे होमे ज्वलन् वै ललदसिरसनस्तीक्ष्णदंष्ट्रस्त्रिनेत्रो गर्जन् विस्फोटयन् यः क्षितिमपि चरणैः साधकं भीषयन् सः / स्थित्वा कुण्डान्तराले हसति कहकहं नृत्यते भीमकायस्तं दृष्ट्वा भीतमन्त्री व्रजति यमपुरं नष्टचित्तः क्षणेन // 163 // 25 १.च. 'यदरुण' नास्ति / 2. ख. ग. च. छ. भो. पूर्व / 3. ग. रक्त / 4. ग. पूर्वोक्त / 5. ख. ईश, च. ईशाने / 6. क. ख. ग. छ. स्थाप्य /