________________ 148 विमलप्रभायां अभिषेक प्रकाशितम् / एवं कालचक्रमण्डलेऽभिषिक्तः सर्वयोगिनीयोगतन्त्रेष्वभिषिक्तो भवति / सर्वतन्त्राणां देशकः, सर्व'मन्त्राणामनुज्ञापकः, सर्वसिद्धीनां साधकः। यथा मजुश्रीभगवान्, यथा कालचक्र आदिबुद्धस्तथा वज्राचार्यो द्रष्टव्यो मोक्षाथिभिः कालचक्रतन्त्रदेशक इति परमादिबुद्धानुसारेणाभिषेकपटलटीका लिखिता // 203 // इति श्री मूलतन्त्रानुसारिण्यां लघुकालचक्रतन्त्रराजटीकायां द्वादशसाहस्रिकायां विमलप्रभायामभिषेकपटले मुद्रादृष्टिमण्डलविसर्जनवीरभोज्य विधिमहोद्देशः षष्ठः॥ // समाप्तेयं टोका अभिषेकपटलस्य // [ 250b ] आगमप्रत्ययादादी लोकधातुकमण्डलः। पुनरध्यात्मनि प्रोक्त आत्मप्रत्यययोगतः // गुरुप्रत्ययतः . शुद्धं रजोमण्डलमादिशेत् / गम्भीरार्थप्रकाशार्थं भगवान् प्रत्ययत्रयम् / / एवं प्रत्ययितैः कथं पुनरयं सत्येन नो गृह्यते संवृत्या परमार्थतोऽपि गदितः सेकार्थतत्त्वक्रमः। यत्सत्यं तदिहाभिषेकपटले ताथागताभ्यागतश्रेयःश्रीभिरलङ्कृतं रतिफलं मोक्षस्य सौख्यस्य च // सुखाद्वीजादस्मात् प्रभवति मनःकल्पविटपो महारागासेकात् त्रिभुवनभुवः सर्पति ततः। फलं सौख्यं भूयः फलति तदनुव्यापि बहुशः स्वयं कल्पातीतो गुरुचरणरागाङ्कितधियाम् // अस्त्यत्र सेकसुखवारिधिवारिवेला विक्षेपदोललडि(लि)तस्य कुतोऽवकाशः। गाहेत तेन वडवानलवत् समुद्र सेकं महारतसुखज्वलनैरतृप्तः // लोकाध्यात्मप्रथमनिखनक्रान्तपृष्ठाभिषेकप्राप्तं पुण्यं भवभयहरं लेखयित्वावुकेन। दत्तेनायं यदिह सकलं तेन सेकोदितश्रीवीर्योत्साहस्थिरहृदयतासाधनायाऽस्तु लोकः // [251a] 1. ग. तन्त्राणाम० / 2. ग. च. भो, अनुज्ञादायकः। ३.ग.च. भो. 'आगम"लोकः' नास्ति।