________________ विमलप्रभायां [अभिषेकवस्त्रयुग्मम्, प्रत्येकं द्वारस्थेभ्यः प्रदेयं रक्षपालेभ्यः प्राग् यथाविभवतो मुकुटादिकं देयमिति नियमः। तथा सकलगणकुलायात्मशक्त्या तथान्यद् गणचक्रे वोरवीरेश्वरीभ्य इति। ततो गणचक्रं विसर्म्य अन्ते होम प्रकृत्याचार्यः पूर्ववत् पूजां कृत्वा पूर्वद्वारे भगवतोऽभिमुखो वज्रवज्रघण्टां गृहीत्वा वज्रबन्धेन 'स्वहृदयकमले ज्ञानसत्त्वं प्रवेश्य // 201 // स्वस्थाने लौकिकान् वै सकलमपि रजो वाहयेच्छुद्धनद्यां ताम्बूलं गन्धधूपं कुसुमफलसमं शाटिकां कन्यकानाम् / दत्त्वाऽऽचार्यः सशिष्यः सकलगणकुलं तर्पयित्वा यथेष्टं शिष्यस्याज्ञां प्रदाय प्रवरकरुणया प्रेषयेत् स्वस्वधाम्नि // 202 // . स्वस्थाने लौकिकान् वै इन्द्रादीन् ततोऽश्वत्थपत्रेण स्वकरेण वा वज्रेण वा ब्रह्मसूत्रमार्गेण महासुखचक्रवज्र यावल्लोपयेत्, ततः स्वशिरसि रजस्त्रुटिमात्रं दत्त्वा पद्मादिकं लोपयेत, इति मण्डलविसर्जननियमः। ततः सकलं रजो गजोपरि छत्रचामरध्वजपूजासहितं नीत्वा शुद्धनद्यां समुद्रगामिन्यां वाहयेत् / यत्र कलशे नीतं तं कलशमुदकपूर्ण कृत्वा पुनर्गजस्कन्धे स्थाप्य मण्डलगृहमानयेत् / गजाभावे सुखासने ऋम्पाणे कृत्वा नेयमिति रजोविसर्जनम्।। ततो मण्डलगृहमागत्य [249b] गोमयेनोपलिप्ते मण्डलगृहे दशकुमारिकां पञ्चवर्षादारभ्य दशवार्षिकां यावद् दुग्धेन घृतेन पायसेन खण्डलड्डुकाद्यैर्मधुराहारैः पूर्वाले संतर्प्य ततस्ताम्बूलं गन्धधूपं कुसुमं च फलसमं शाटिकां कलशग्रीवावेष्टितां कन्यकानामिति कुमारिकाणां दत्त्वाऽचार्यः सशिष्यः सकलगणकलं वीर भोजे(ज्ये)न तर्पयित्वा यथेष्टमिति। तत्र वीरभोज्ये विधिरयम्-इहाचार्यपरीक्षायां त्रिधा वज्राचार्यः, उत्तमो मध्यमोऽधम इति / तद्यथा दशतत्त्वपरि ज्ञानात् त्रयाणां भिक्षुरुत्तमः / . मध्यमः श्रावणराख्यो गृहस्थस्त्वधमस्तयोः॥ इति नियमात् तन्त्रे तेषां भिक्षुचेल्लकगृहस्थानामेकसंकरं सामान्येन ज्येष्ठकनिष्ठत्वं __वाऽभिषेकतः। तस्माद्भिक्षुवज्रधरपङ्क्तिः पूर्वाभिमुखी भवति कर्तव्या वा', चेल्लक पङ्क्तिरुत्तराभिमुखी, गृहस्थाचार्यपङ्क्ति"दक्षिणाभिमुखी। एवं भिक्षुणीपङ्क्तिः, 15 20 25 1. च. 'स्व' नास्ति / 2. छ. नियतं / 3. ग. भो. तत्कलश, च. सकलश, क. ख. तं तं कलश / ४.भो. Khyogs (ऋम्पाणे)। 5. क. ख. ग. छ. ताम्बूल / 6. च. कुसुमफल / 7. क. ख. च. छ. भोजने / 8. ख. ग. च. भो. ज्ञाता / 9. च. भो. 'वा' नास्ति / 10. ग. च. पूर्वामुखी। 11. ग. च. दक्षिणामुखी।