________________ पटले, 167-170 श्लो.] प्रतिष्ठागणचक्रविधियोगचर्यामहोद्देशः तथा ब्राह्मणो वा कापाली वा लुप्लकेशः क्षपणको वा भवतु सितपटो वा क्षेत्रपालो वा भवतु शुद्धः / मौनी वा / उन्मत्तरूपो वा / कौलो वा / अकलुषहृदयः पण्डितश्छात्रो वा योगी सिद्धयर्थहेतोः सकलगुणनिधिलब्धतत्त्वो नरेन्द्र यां(या) रोचते मनसस्तां चर्चा' करोतु यावसिद्धिर्भवति। ततो लोकातिक्रान्तां करोतु सामर्थ्यतः सकाशादिति तथागतनियमः // 169 // इति "मूलतन्त्रानुसारिण्यां लघुकालचक्रतन्त्रराजटीकायां द्वादशसाहस्रिकायां विमलप्रभायां प्रतिष्ठागणचक्रविधियोगचर्यामहोद्देशः पञ्चमः // [240.] (6) मुद्रादृष्टिमण्डलविसर्जनवीरभोज्यविधिमहोद्देशः "दैत्येन्द्रा करमुद्राभिस्त्रासिता येन दृष्टिभिः / प्रणम्य कालचक्रं तं वक्ष्ये मुद्रादिलक्षणम् // यथोद्धृतं महातन्त्रात् स्वल्पतन्त्रेण वाग्मिना। तनोमि टीकया सर्व मुद्रादृष्ट्यङ्ग'छोमकम् // इति / 15T409 इह मुद्राबन्धार्थ वृद्धाङ्गुष्ठकादि पञ्चाङ्गुलीनां संज्ञा इतिअगुष्ठस्तर्जनी या पुनरपि च तथा मध्यमाऽनामिका च तस्यान्ते वै कनिष्ठा सकलगुणनिधिर्योगिना वेदितव्या / मुद्राथं नामभेदो भवति गुणवशादङ्गुलीनां क्रमेण बन्धोक्ते वज्रबन्धो भवति नियमितो मुष्टिबन्धे च तद्वत् // 170 // वृद्धाङ्गुष्ठः, ततो द्वितीया तर्जनी, तृतीया मध्यमा, चतुर्थी अनामिका, तस्या अनामिकाया अन्ते कनिष्ठा सकलगुणनिधिः, आकाशधातुत्वात् / योगिना वेदितव्या आचार्योपदेशेनेति / एवं मुद्राबन्धार्थ नामभेदो भवति गुणवशात् / गन्ध-रूप-रस-स्पर्शशब्दगुणवशादिति क्रमेण। एवं बन्धोक्ते सति वज्रबन्ध इति भवति / नियमितो मुष्टिबन्धे कृते सति वज्रमुष्टिबन्ध इति नियमः, तद्वदेवेति वचनात् // 170 // 1. भो. 'लब्धतत्त्वो' नास्ति / 2. ग. मनस्तां / 3. ग. च. भो. 'गुप्तां' इत्यधिकम् / ४.ग. श्रीमल०। 5. क. ख. छ. दैत्येन्द्रो। ६.ग. छोम्म / 7. भो. 'पञ्च' नास्ति / ८.छ. विधिनाकाश / 9. भो. नियमतो /