________________ पटले, 127-131 श्लो.] प्रतिष्ठागणचक्रविधियोगचर्यामहोद्देशः श्रीवज्री श्रीजनेता त्रिभुवनजनको भ्रातरः सर्वबुद्धा नेत्राद्या भ्रातृपुत्रास्त्वपरबहुविधा नप्तरो नप्तृपुत्राः / चक्रस्था योगिनीभिः स्वकुलभुविगता सेवनीयाः प्रहृष्टाः क्षेत्रे पीठे श्मशाने न सजनविजने मोचनीयाः कदाचित् // 128 // एवं श्रीवत्री आचार्यो डोम्ब इति श्रीजनेता, स एव चण्डालः, नायकत्वात् / 5 डोम्बी चण्डाली, उच्छिष्टभक्षणेन, तन्मैथुनकरणादिति। एवं कुलविशुद्धया योगिना स्वमात्रादयो गोत्रजा आगताः स्वभुवि न वर्जनीयाः। न तत्र लज्जा कार्येति योगिभिः श्रीवत्री श्रीजनेता त्रिभुवनजनको वज्रसत्त्ववद् द्रष्टव्यः / भ्रातरः सर्वबुद्धाः शूद्रादयो हड्डिकादयः। नेत्राद्या भागिनेयाः कंसकारादयः। नप्तरोऽष्टौ 'हड्डिकादयः / नप्तपुत्रा लोहकारादयः। न सजने न विजने मोचनीया योगिनीभिरिति परस्परचित्त- 10 विशुद्धिनियमः। [229a] || 128 / / या काचिद्वज्रपूजां ददति हि वनिता पुण्यहेतोस्त्रिशुद्ध्या आचार्यायेन्दुवक्त्रा कुवलयनयना दिव्यगन्धानुलिप्ता / यत्पुण्यं भूमिदाने गजतुरगरथानेककन्याप्रदाने तस्यास्तत्सर्वपुण्यं भवति नरपते स्वस्थचन्द्राकसीम्नः // 129 // 15 तत्र गणचक्रे या काचिद्ववपूजां ददति हि वनिता पुण्यहेतोस्त्रिशुद्धघा आचार्याय सवीराय चन्द्रवक्त्रा कुवलयनयना दिव्यगन्धानुलिप्ता / यत्पुण्यं भूमिवाने गजतुरगरथानेककन्याप्रदाने भवति, तस्या योगिन्यास्तत्सर्वपुण्यं भवति / नरपते इत्यामन्त्रणे / स्वस्थचन्द्रार्कसीम्नोऽक्षयमित्यर्थः // 129 // इदानीं तारादिकुलानि शूद्रादिवर्णानामुच्यन्ते - .. तारा शूद्री चतुर्धा भवति भुवितले पाण्डरा क्षत्रिणी च क्ष्मा वैश्या त्रिप्रकारा द्विजजनकुलजा सप्तधा मामकी स्यात् / शब्दाख्या कांस्यकारी खलु रसकुलिशा शौण्डिनी रूपवज्रा सम्यग् वै हेमकारी भवति नरपते गन्धवज्रा धरण्याम् // 130 // मालाकारी प्रसिद्धा प्रकृतिगुणवशात् स्पर्शवज्रांशुकारी वज्रान्ता धर्मधातुर्भवति हि मणिकारी च लोके प्रसिद्धा / 1. ग. च. भो. योगिनीभिस्तथा / 2. ग. भो. खट्टि, ख. छ. खड्डि, च. खडि / 3. ग. आमन्त्रणम् / T404 20 25