________________ पटले, 96 श्लो.] मण्डलाभिषेकमहोद्देशः ततश्चतुर्थन्यास उच्यते-मातेति 'पुटंजारी भाग 1, भमिनी सहदेवा भाग 3, पुत्रीति कृताञ्जलि: भाग 4, भागिनेया अजकर्णा भाग 5, स्वजा मोहनी वटपत्रिका भाग 2, इति चतुर्थपञ्चकम् / / T397 ___15 ततः पञ्चमो न्यास उच्यते-ब्राह्मणीति बृहती भाग 4, क्षत्रिणी भृङ्गराजः भाग 5, वेश्या यष्टिमधु भाग 2, शूद्री कण्टकारी भाग 1, डोम्बी मयूरशिखा भाग 3 / इति पञ्चमन्यासः। . एवं यथासंख्यं धान्यादिशस्यसमूहम् / धान्यं, महाधान्यं, माषाः, श्वेतचणकाः, कृष्णतिला इति प्रथमपञ्चकम् / द्वितीयम्-कोद्रवाः, मुद्गाः, कलाः, शुक्लतिलाः, गोधूमाः। तृतीयम्-मौठम्, त्रिपुटः, कृष्णसर्षपाः, यवाः, माषाः। चतुर्थम्-मसूरिकाः, शुक्लसर्षपाः, कङ्गः, तुवरिका, वर्वटिका। पञ्चमम्-अतसी, वरटी, वर्णा, कुलत्थाः, कृष्णचणकाः। इति पञ्चशस्यानि यथा[216b] लब्धानि ग्राह्याणि कक्षपुटभागेनेति / अत्र भागाङ्गुलिसंख्याः। ततो रत्नानि ब्रह्मक्षत्रियविद् शूद्रजातोनि वजाणि / तथा इन्द्रनील-पद्मराग-चन्द्रकान्त-कर्केटक-मरकतानीति प्रधानानि / तथा लोहानि सुवर्णरूप्य-ताम्र-तीक्ष्णायः-अयस्कान्तानि / तथा मध्यमरत्नानि मुक्ताप्रवालराजपट्टशूलमणिषड्विन्दुकाश्चेति / तथा अधमानि-स्फटिक-जीवजाति- डोहरी-काच-हरितमणय इति / एतानि यथाविभवतो ग्राह्याणि / अथ देवनागानां मणय आज्ञाचक्रवर्तिनो महारत्नाभिषेके पञ्चवर्णा भवन्ति / तदभावे पञ्चवर्णानि सौरभ्यपुष्पाणीति नियमो दरिद्राणाम् / एवं मृण्मयैर्वा सरत्नैः। अत्र हरितरत्नं विजयशङ्ख, नीलरत्नं पूर्वापरजयविजयघटे, कृष्णं पूर्वाग्नेयघटे, रक्तं दक्षिणनैऋत्यघटे, श्वेतमुत्तरेशानघटे, पीतं पश्चिमकायव्यघटे, एवमयःकान्तं तीक्ष्णं तानं रूप्यं "सुवर्णम् / तथा"ओषध्यः। इति एकभामिका जयविजयघटे / द्विभागिका पूर्वाग्नौ। त्रिभागिका यमदैत्ये / चतुर्भागिका * * उत्तरे हरे / पञ्च भागिका पश्चिमे वायव्य इति / तथा गुडिकाभेदेन शस्यानि / तथा पूर्वोक्तकक्षपुटौषध्यः पञ्चेति / एवं लोहानि रत्नानि वनौषध्यः शस्यानि गन्धद्रव्याणि घटेषु क्षिप्त्वा तेः पञ्चविंशतिभिः पुनः पोटलिकां बद्धवा विजयशङ्ख "क्षिपेत् तोयपूर्णे। तेन पञ्चसु जन्मस्थानेषु सिञ्चयेत्-उष्णीषे, स्कन्धबाहुसन्धी सव्ये वामे, एवं हि फिच्चककटिसन्धौ। ततः कुलदेवताविशोधनाय पुष्पक्षेपमन्त्रः-ॐ "सर्वतथागतकुलविशोधनि स्वाहा। अनेन मन्त्रेण आचार्यः पुष्पमोक्ष शिष्यं कारयति / 1. ख. छ. पुतं, ग. च. भो. पुत्रं / 2. क. ख. छ. षष्ठी। 3. भो. कन्डकारी, क.ख. ग. छ. कण्ठकारी। 4. ग. भो. मोष्ठं। ५.ग. त्रिपुटाः। 6. क. ख. ग.च. वर्धटिका / 7. भो. mThar sKyes Kyi Rigs Las skyes Pahi (अन्त्यजजातानि)। ८.छ. ०तक / 9. क. ख. ग. च. छ. तीक्ष्णाय कान्तानि / 10. ग. तोहरी, च दोहरी / 11. भो. Cags INon Po (तीक्ष्णायः)। 12. च. स्वर्णम् / 13. ग. औषध्यः / 14. च..शाने / 15. क.ख.छ. पञ्चम / 16. ग. च, प्रक्षिपेत् / 17. ग. तेषु / 18. च. 'सर्च' नास्ति / 20