________________ पटले 1 सन्मार्गनियमोद्देशः शुद्धज्ञानकयोगो जिनवरसमयश्चित्तधर्मैकयोगः वाक्सम्भोगैकयोगस्त्रिभुवनमहितः कायनिर्माणयोगः / ज्ञानज्ञेयाद्वयोऽसौ गतभवविभवो वज्रसत्त्वश्चतुर्धा प्रज्ञोपायात्मकं तं नृसुरदनुसु(नु)तं' वज्रयोगं प्रणम्य // एक पदं वज्रमणौ रजोऽर्के उष्णीषशक्रे शशिनि द्वितीयम् / न्यस्तं सदाच्छेद्यमभेद्यमिष्टं भर्तुस्त्रिलोकमहितं शिरसा प्रणम्य / / वाय्वग्निवार्यवनिमण्डलमेरुपद्मचन्द्रार्कतेज उपरीश्वरमारमूनि / न्यस्तं पदं भुवनमातृपदेन साद्धं भर्तुः सुरेन्द्रनमितं शिरसा प्रणम्य // एवं यो वज्रयोगोऽपरिमितसुगतैः सेवितो देशितश्च सङ्गीतो बोधिसत्त्वैर्वरकुलिशधरैर्मन्त्रविद्भिः समस्तैः / 10 तं. योगं वक्तुकामोऽक्षरपरमसुखं कालचक्रे जडोऽहम् आकाशे शीघ्रगामी व्रजति खगपतिः किं न यात्यन्यपक्षी // यस्मिन् समस्तभुवनं प्रकटं च देहे गीतं समन्त्रमलिबिन्दुधरैजिनेन्द्रः / * तस्मिन् महाजलनिधौ प्लवितुं प्रविष्टः पारं प्रयामि यदि तत्र जिनानुभावः // यद् व्याकृतं दशबलेन पुराल्पतन्त्रं गुह्याधिपस्य गदितात् परमादिबुद्धात् / 15 तत् कालचक्रलघुतन्त्रमिदं कलापे मञ्जुश्रिया निगदितं सकलं मुनीनाम् / टीका सुचन्द्रलिखिता सर्वयानार्थसूचिका। षष्टिसाहस्रिका याऽऽसीत् पुण्डरीकेण सा मया // लिख्यते लघुतन्त्रस्य मूलतन्त्रानुसारिणी। ग्रन्थद्वादशसाहस्री सवज्रपदभेदिनी // श्रुत्वा तन्त्रमिदं जिनोक्तविधिना [2a] सेकं गृहीत्वोत्तरम्। योगी वा लघुतन्त्रराजमखिलं संज्ञानमार्गे स्थितः / त्यक्त्वा मानमनेकभोगविभवं चित्तं गुरोरपितो (गुरावर्पितम्) बुद्धत्वाय परोपकारचरितः टीकां शृणोति प्रभोः // योऽभिज्ञारहितः करोति महतीं श्रीवज्रयाने स्थितः 25 शास्त्रानेकविकल्पधर्महृदयः पाण्डित्यवर्या(दर्पा)न्वितः / टीकां सोऽन्धगजप्रमत्त इव तत् तन्त्रं स्वकं ध्वंसयेत् शत्रोस्तन्त्रजयाय यत स्थितमिदं मारस्य बन्धः सदा // 1. ख. घ. ऊ. ०दनुनुतं / 2. ख. उपरिश्चर; भो. Ten dudBan Phyug (उपरीश्वर०)। 3. ङ. स्व / 4. भो. समन्त्रआलि०; क. समन्त्रमालि०; ङ. मालि० / 5. ङ. गृहीत्वान्तरं / 6. ख. भो। 7. घ. स करोति / 8. क. महती। 9. ख. दर्पा०; भो. Dregs lDan (दन्वितः) /