SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ 272 विमलप्रभायां [अध्यात्म श्रीमत्तन्त्र प्रथमपटले भाजनीभूतलोकः स्पष्टोद्दिष्टाः] प्रभवलयसंस्थानमानादिभेदाः (दः)। तैस्तैस्तुल्या स्वतनुरतुला स्पष्टदृष्टार्थतत्त्वेईया कैश्चिद् यदिह पटले मुद्रया मुद्रितेव / / अध्यात्मनिर्णयकरं पटलं विले(लि)ख्य श्रीआवुकेन कुशलं यदिहाप्तमुच्चम् / तेनास्तु सेकसुखनिर्णयकल्पराजबोधिप्रतिष्ठितमतिः सकलोऽपि लोक:* // // // शुभम् // // *-*. 'इदानीं सूर्यरथस्य नमस्कारः' इत्यारभ्य 'त्वं माता त्वं पिते'त्यादिसम्पूर्णः श्लोकः प्रवर्तमानविषयसन्दर्भाद् बहिर्गत इव प्रतोयते, अथापि द्वितीयपटलस्य अन्तिमश्लोकत्वेन १८०तमसंख्यापूरकत्वेन पुस्तकेषु कथं गृहीत इति जिज्ञासासमाधानान्वेषणे आचार्यखेस-5 ब जे महाभागोऽपि बहिर्गतमेव स्वीकरोतीति ज्ञात्वाऽत्र तदुपन्यस्यते भोटभाषया; उक्तं हि तैः "De La Ye Ses Lehuhi Tshigs bCad Nis brGya Na bCu rTsa gis Pa Man Chad bCu Dan. Nan Lehi Tshigs bCad Tha Ma Te bCu gCig Pa De Ni Grags Pa Dan Ni Mahi Sin rTahi gSun Yin Gyi rТsa Bahi rGyud Las bTus Pa Ma Yin Pas". (Grel Chen Dri Med Hod Grel bSad, Kha' page 35). उपरिलिखितभोटांशस्य संस्कृतानुवाद: "तत्र ज्ञानपट लस्य द्विपञ्चाशदुत्तरद्विशततमकारिकातः समाप्तिपर्यन्तं दशकारिकाः, अध्यात्मपटलस्य अन्तिमा कारिका च, इमा एकादशकारिका यशसः सूर्यरथस्य वा वचनानि सन्ति, न तु ता मूलतन्त्राद् उद्धृताः" / 1. क. मूलतन्त्रा० / 2. क. समाप्तः / द्वितीयपटलस्य पुष्पिकानन्तरं 'श्रीमत्तन्त्रे प्रथमपटले' इत्यारम्य 'बोधिप्रतिष्ठितमतिः सकलोऽपि लोकः' इति पर्यन्तं श्लोकद्वयमन्यसंस्कृतप्रतिषु नोपलभ्यते, केवलं क. पुस्तके एव उपलभ्यते / मन्ये, लिपिकारेण स्वरचितं श्रद्धयाऽत्र निवेशितमिति /
SR No.004303
Book TitleVimalprabha Tika Part 01
Original Sutra AuthorN/A
AuthorJagannath Upadhyay
PublisherKendriya Uccha Tibbati Shiksha Samsthan
Publication Year1986
Total Pages320
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy