________________ 252 विमलप्रमायों [अध्यात्म पूर्वोक्तम् / मद्यं पूर्वोक्तं धूपादिकम्; सर्व वंशचङ्गेडिकायां दत्वा त्रिवारान् निर्मञ्च- . (छ)येत् सदीपबलिना। विगिति दशदिनम् / देशविग्विभागे इन्द्रादि-ईशानपर्यन्तम् अध ऊध्र्व बलिः ग्राममध्ये चतुःपथे दातव्येति / बालानां वर्षजातानां प्रकटितमवनों पुष्टिहेतोः, नरेन्द्र इत्यामन्त्रणम् / इति संवत्सरीणां पूजानियमः / 5 एवं गर्भाव वर्षत्रिपञ्चेति पञ्चदशवर्षपर्यन्तं त्रयः(त्रिषष्टियोगिनीनां नियतं पूजा कर्तव्या, अन्यथा बालानां शान्त्यादिकं न भवतीति योगिनीनां पूजानियमः / इदानी मातृगृहीतानां दोषलक्षणमुच्यते अङ्गेत्यादिअङ्गात् क्षयोऽक्षिशूलं मुखकरचरणं पीततां याति सम्यक् प्रश्रा(स्रा)वः पीतवर्णो ज्वर इति च भवेच्छर्दिशोषं च मर्छा / ज्ञात्वा चिह्नानि तेषामपि नृप करणं मण्डले होमकार्य नोऽदत्ते मुञ्चयन्ति प्रकृतिगुणवशान्मातरो भूतजाश्च // 152 // 10 इह यदा मातृभिगृहीतो बालको भवति, तदा तस्याङ्गात् क्षयो भवति, अनिशूलं भवति, मुखकरौ चरणौ च मुखकरचरणं पोततां याति, सम्यक् प्रवा(ला)वः पीतवर्षों भवति, ज्वरो भवति, छर्दिर्भवतीति, शोषं च मूर्छा भवति; एतानि मातृदोषचिह्नानि 15 ज्ञात्वा तेषां बालकानाम्, अपिशब्दात् क्रूरग्रहगृहीतानां मण्डले होमादिकं कार्यम्; अन्यथा नोऽदत्ते बलो मुञ्चयन्ति प्रकृतिगुणवशात् भूतजा मातरः पूर्वोक्ता इति चिकित्सालक्षणम् / इदानी चतुःषष्टिमया कुलिकया गृहीतस्य मृत्युलक्षणमुच्यते श्वेतेत्यादिनाश्वेताङ्गं यस्य सर्वं भवति नरपते स्फोटकाश्चातिसूक्ष्मा वक्रग्रीवा सगात्रा स्रवति सरुधिरं वक्त्रगुह्ये गुदे च / त[150b]स्मिन् पूजां न कुर्याद्भवति हि लघुता मन्त्रिणां मोहितानां मृत्युस्तस्यास्ति नूनं सुरनरभुजगै रक्षितुं शक्यते न // 153 // इह चतुःषष्टिमा कुलिका सर्वासां योगिनीनां प्रत्येकसन्धी व्यापकरूपेणास्थिता गर्भदिनमासवर्षाणां सन्धी। तया गृहीतस्य बालकस्य श्वेताङ्ग सर्वं भवति; स्फोट२७ काश्चातिसूक्ष्माः सर्षपराजिकामात्रा भवन्ति; वक्रा ग्रोवा भवति; सगात्रा श्र(स्र)वति रुधिरम् / वक्त्रे वा, गुह्ये वा, गुदे वा। ईदृशं लक्षणं दृष्ट्वा तस्मिन् विषये पूजां न कुर्यात् / यदि करोति तदा मोहितानां मन्त्रिणां लोभाद् लघुता भवति / कुतः ? यतो नूनं तस्यास्ति मृत्युः सुरनरभुजगै रक्षितुं शक्यते न इति मृत्युचिह्ननियमः।