________________ पटले] अरिष्टमरणलक्षण-नाडीच्छेद-महोद्देशः 209 इति / एवं तृतीयदिने तृतीयायाः पञ्चांशाः; एवं द्वितीयायाः दश, प्रथमाया वा[यु]भेदेन पञ्चदश / एवं बालप्रभेदेन चतुर्थ्याः पञ्चांशाः, तृतीयाया दश, द्वितीयायाः पञ्चदश, प्रथमाया युवाभेदेनकोनविंशतिः / एवं पञ्चमे दिने पञ्चम्यां(:) पञ्चांशाः, चतुर्थ्या दश, तृतीयायाः पञ्चदश; द्वितीयाया एकोनविंशतिः, प्रथमाया वृद्धभेदेन द्वाविंशतिः / एवं षष्ठे दिने षष्ठ्याः पञ्चांशाः, पञ्चम्या दश, चतुर्थ्याः पञ्चदश, तृतीयाया एकोनविंशतिः, 5 द्वितीयाया द्वाविंशतिः; प्रथमाया अतिवृद्धिद्धीभेदेन चतुर्विंशतिः। एवं सप्तमे दिने सप्तम्याः पञ्चांशाः, षष्ठ्या दश, पञ्चम्या पञ्चदश, चतुर्थ्या एकोनविंशतिः, तृतीयाया द्वाविंशतिः, द्वितीयायाः चतुर्विंशतिः, प्रथमायाः पक्वावस्थाभेदेन सप्तमे दिने पञ्चविंशत्यंशाः धनं वा ऋणं वा चरणवशाद् भवन्ति / एवं बालादिक्रमेण सर्वेषां प्रमेयो ज्ञेयः / एवं सप्ततिथीनां चरणांशान् गृहीत्वा हृत्कमलादिषु विंशत्यधिकशतदलेषु शशाङ्कः 10 क्रमति, ततः पुनरुत्क्रमति / शशिपदं स्वकीयं पदमित्यर्थः / हृदयेऽष्टदलेष्वष्टांशाः, ललाटे षोडशदलेषु षोड़शांशाः, सम्भोगे द्वात्रिंशद्दलेषु द्वात्रिंशदंशाः, नाभिकमले चतुःषष्टिदलेषु चतुःषष्ट्यंशाः। एवं विंशत्यधिकशतांशान् भुक्त्वा चन्द्रकलाया हानिर्वा वृद्धि निवर्तते / हृत्पद्मे ललाटे च भूतदिग्वासराख्यं सम्भोगे नाभौ च नवदशसहितं रुद्रयुग्मं जिनाख्यम् / तत्त्वाख्यं सप्तरात्रात्यजति पुनरसो उत्क्रमन् यः शशाङ्कः / प्रथमकलायाः 15 T316 पञ्चविंशत्यंशाः परिपक्वाया भवन्ति; सा चाष्टमे दिने ना[122b]भाव[1]धिदेवता भवति / पुनः पूर्णमास्यां नाभिहृत्कण्ठललाटेषु पूर्णं करोति / बिन्दुस्थाने बिन्दी पूर्णा प्रकृत्य इति, ततो नाभेः पुनरुत्क्रमन् चतुःषष्टिदलेषु चतुःषष्टयंशाः, हृदयेऽष्टांशाः, कण्ठे द्वात्रिंशदंशाः, ललाटे षोडशांशाः; एवं चतुर्दशदिनैः पदानां पूर्ण भवति / तस्मिन् पूर्णा प्रकृत्य प्रविशति हृदये शुक्लपक्षे धनपक्षे क्रमेण / भूयः कृष्णे च तद्वद् व्रजति पदपदान् नाभिपद्मे हि यावदष्टारे षोडशारे हृदि शिरसि तथा कृष्णशुक्ल()ब्जसंज्ञे। कण्ठे द्वात्रिंशदारं द्विगुणितमपरं रक्तपीतं च नाभौ द्वयष्टम्यौ नाभिकण्ठे शिरसि च हृदये श्वेतकृष्णा च पूर्णा / / 74 // आद्यास्त्रिशत् स्वरा ये हयरवलयुता बिन्दुभिः श्रीविसर्गभिन्नाः षष्टिर्बभूवुर्युगनृपवसुदन्ताश्च ते केशराने / बिन्द्वाकारैविसर्गर्वरकमलदले कादिवर्गा विभिन्नाः विंशत्येकं शतं च प्रहरगतिवशाद् रोहते क्षीयतेऽर्कः / / 75 // भूयः कृष्णे च तद्वद् ऋणपक्षे पूर्ववदुत्क्रमेण वायुपृथिवीतोयाग्निपनदलेषु संहारेण यावद् ऋणपूर्णा कृष्णपदानां हृदये भवतीति पदनियमः / अत्र कमलान्यष्टारं हृदये कृष्णम्, षोडशारं शिरसि शुक्लम्; कण्ठे द्वात्रिंशदारं ' रक्तम्, द्विगुणितं तस्यापरं चतुःषष्ट्यारं नाभी पोतमिति पद्मदलनियमः / 30