________________ 167 पटले] कायवाकचित्तोत्पत्ति-चतुरायंसत्यनिर्णय-महोद्देशः श्चेति अग्निधातूद्भूतं चक्षुरिन्द्रियं गृह्णाति तोयधातुजनितं रूपविषयम् / वह्निधातुजनितं रसविषयं जलधातूद्भूतं रसनेन्द्रियं गृह्णाति / धरित्री पृथ्वीधातूद्भूतं कायेन्द्रियं गृह्णाति वायुधातूद्भूतं स्पर्शविषयमिति विषयविषयिणां ग्राह्यग्राहकलक्षणनियमः। लोकसंवृत्या रूपादीनां स्कन्धानां प्रत्येकधातौ सिद्धिमाह सिद्धमित्यादिसिद्धं रूपं धरण्यां त्रिभुवननिलये चोदके सिद्धसंज्ञा वह्नौ वै वेदना च प्रभवति पवने सिद्धसंस्कार एव / विज्ञानं ज्ञानमिश्रं सगगनकुलिशे सिद्धमेवात्र काये धातुस्कन्धादिसर्वं भवति च रजसा बोधिचित्तादियोगात् // 21 // इह धातुस्कन्धानामैक्यं सिखमुच्यते; अत्र घरण्यां मुख्यतो रूपं सिद्धम्, संज्ञादयो गौणतः सिद्धाः। त्रिभुवननिलये धातुकविषये, न निर्वाणधर्मे भवतीति / चकारादुवके 10 संज्ञा सिद्धा भवति / इह संज्ञानामस्वरधर्मचन्द्रः, शुक्र तोयप्रकृतिः, तोयप्रकृतित्वात् संज्ञा सिद्धा भवति, उवक इति निश्चयः। वह्नौ वै वेदना चेति इह वह्निप्रकृतिः सूर्यो रजः, कालि: सूर्यरजः कालिस्वभावा वेदना। अतो वह्नौ वेदना सिद्धा भवति मुख्यतः, शेषा गौणतः प्रभवन्ति / पवने सिद्धः संस्कारस्कन्धः, एवमत्र वायुः कायवाक्चित्तसंचालकः संस्कारजनकः, तेन वायुप्रकृतिः संस्कारः सिद्धः। एवं विज्ञानं ज्ञाननिषं 15 ज्ञानसहितम् / यथाक्रम सगगनकुलिशे आकाशे विज्ञानं सिद्धं श्रोत्रविज्ञानादिलक्षणम् / कुलिश ज्ञानधातौ ज्ञानं सिद्धं बोधिचित्तच्यवनान्ते सुखवक्षणात्मकस् / अत्र काये षड्धात्वात्मके महापुरुषपुंग(पुद्ग)ले / कस्माद् धातुस्कन्धादिसर्वमित्याह / रजसा बोषिचित्तावियोगात इह शरीरे धातुस्कन्धादिक यत् सर्वं तद् रजः शुक्रालयविज्ञानसुखक्षणावस्थासंयोगाद् भवति [92b] / 'श्रोत्रादीनां ग्राहकाणां शब्दादिविषयग्राहकत्वेन तत् स्वभावत्वमाह श्रोत्रमित्यादि श्रोत्रं वज्रस्वभावं भवति नरपते चित्तमाकाशभावं घ्राणो भूमिस्वभावो भवति च रसना वह्निभावा तथैव / चक्षुस्तोयस्वभावं त्रिभुवननिलये वायुभावश्च कायः / एवं श्रोत्रादिसर्वं भवति गुणवशात् ज्ञानविज्ञानयोगात् // 22 // इह शरीरधर्मे श्रोत्रं ग्राहकत्वेन शून्यलक्षणं ग्राह्यविषयग्रहणेन वजूस्वभावं शब्दस्वभावमिति / अत्र ग्राहको धर्मः कायभेद उच्यते, ग्राह्यो धर्मो भावभेदः / अतो ग्राह्यस्वभावेन जन्यजनकस्वभावो विज्ञेयो नरपत इत्यामन्त्रणम् / चित्तं मनः आकाशस्वभावं धर्मधातुस्वभावम्, धर्मधातुविषयग्राहकत्वात् / घाणो भूमिस्वभावो गन्ध- 30 स्वभावः, गन्धग्रहणाद् / भवति च रसना वह्निस्वभावा तथैव, यथा पूर्वे वह्निजन्म 25