________________ पटले] ज्योतिर्ज्ञानविधिमहोद्देशः इदानीं बृहस्पतिरुच्यते कृत्वाहः पिण्डमूनं खखरसनयनैरिति षड्विंशतिशतैरूनमहः पिण्डं पूर्वदिनगणं' कृत्वेति / खखरसनयनरूनमिति करणापेक्षा न सिद्धान्तापेक्षात इति / दन्तवह्नवि(ह्नयब्धि)भक्तमिति द्वात्रिंशदधिकत्रिंशच्चतुःसहभक्तमिति / शेषे भत्त.विशेषे ऋक्षघ्नं सप्तविंशतिभिर्गुणितं मण्डलभोगेन' नक्षत्रं भवति / पुनरपि पूर्वोक्तक्रमेण घटिकादिका 5 भवन्तीति; गुरोर्नोगे चेति। नक्षत्रं शोध्यम हरनवशिखिनो मन्दकार्ये पदानि भूयः शीघ्रं पदानि प्रकटमनुपदे दिक्पदाद् यानि तानि / हत्वाहः खेन्दुनोनं जलनिधिवसुभिर्भक्तम!जिना: ऋक्षघ्ने चर्तंभोगः पुनरपि घटिका शीघ्रकार्ये भृगोश्च // 47 // 10 नक्षत्रं शोध्यमर्कमिति / अत्र बृहस्पतिभोगे द्वादशनक्षत्रं शोधनीयम्, शिष्टं कार्य मङ्गलवदिति / हरनवशिखिनो मन्दकार्ये पदानि पूर्ववत् षड्राशिपदे हर इति एकादश, ततो नव, ततः शिखिन इति त्रयः / एवमपराद्धेऽपि विलोमेनेति / भूयः शीघकर्मणि मनुपदानि प्रकटमनुपदे (चतुर्दशपदे) विक्पदाद यानि तानोति / दिगिति दशादिनक्षत्रचारपदानि वक्ष्यमाणे वक्तव्यानीति बृहस्पतिशुद्धिः / इदानीं शुक्र उच्यते हत्वाहः खेन्दुनेति दशभिर्दिनगणं हत्वा / ऊनं जलनिधिवसुभिरिति / चतुरशीतिभिरूनं कृत्वा भक्तमट्टैजिनाक्षरिति सप्तचत्वारिंशदधिकद्वाविंशच्छतै रिति / चरणमण्डलदिनैः शीघ्रचरण[62b]शुद्धध्यर्थम् , अवशिष्टे ऋक्षघ्ने चर्तभोगः पुनरपि घटिकाभोगैर्मङ्गलवत् / एवं पाणीपलादिभोगः शीघ्रकायें भृगोर्भवति मन्दकार्ये भृगोश्च / 20 ऋत्वृक्षं(त्वॉ) शोध्यमर्के शरयुगशशिनो मन्दकार्ये पदानि शीघ्र तत्त्वादिभेदैः प्रकटमनुपदेः देयहेयं तथारे / ऊनः खाक्ष्यष्टवेदैः स्फुटदिवसगणः षड्रसागाम्बरैकैः भक्तश्चक्षुघ्नऋक्षं भवति च शशिनः(शनेः) पात्यमष्टादशश्च // 48 // ऋत्वक्ष(क्ष)मिति षड्नक्षत्रम् / शोध्यमर्के सूर्यभोगे इति सर्वत्र पञ्चम्यर्थे 25 सप्तमी वेदितव्या। शरयुगशशिनो मन्दकायें पदानीति पूर्ववत् षड्राशिस्थाने शर 1. ख. पूर्वदिगणं / 2. क. क. भागेन / 3. भो. gNes bCu bSi (चतुर्दशपदे), अत एव अत्र भोटानुसारं'चतुर्दशपदे' इति योजनीयम् / 4-5. ख. पुस्तके नास्ति / 6. क. पुस्तके नास्ति; परन्तु भोटानुसारमावश्यकम्-Dag Pahi Don dul ८.ख. मर्को।