________________ 642 श्रीसिद्धसेनदिवाकरप्रणीता महाब्रह्मयोनिर्महासत्त्वमूर्ति- . महाहंसराजो महादेवदेवः / महामोहजेता महावीरनेता स एकः परात्मा गतिर्मे जिनेन्द्र: // 32 // इत्थं ये परमात्मरूपमनिशं श्रीवर्धमानं जिनं वन्दन्ते परमाहवास्त्रिभुवने शान्तं परं दैवतम् / तेषां सप्तभयः कं सन्ति दलितं दुःखं चतुर्धाऽपि तै मुक्त यत् सुगुणानुपेत्य वृणते तावक्रिशक्रश्रियः // 33 // इति विक्रमादित्यनृपालप्रतिबोधकेन वादिवृन्दवारणपञ्चाननेन कमनीयकवितालवालकल्पेन तुलनातीतकल्पनाशिल्पशिल्पिशेखरेण. सूरिशेखरेण भगवता सिद्धसेनदिवाकरेण प्रणीता द्वात्रिंशद्वात्रिंशिकानाम ग्रन्थः समाप्तः //