________________ सिद्धसेनदिवाकरप्रणीता जाति-लिङ्ग-परिमाण-काल-व्यक्तिप्रयोजनाः / संज्ञा-मिथ्यापरा दृष्टाः परिक्षिण्यन्त्यचेतसः // 13 // यथार्थ वा स्यात् संबन्धः शब्दादीन्द्रियचेतसाम् / तदस्य जगतः सत्त्वमात्मप्रत्ययलक्षणम् // 14 // द्रव्य-पर्यायसंकल्पश्चेतस्तव्यञ्जकं वचः / तद् यथा यत्र यावच्च निरवयेति योजना // 15 // निषेकादिजरापाकपर्यन्तपौरुषं यथा / , सम्यग्दर्शनभावादिरप्रमादविधिस्तथा // 16 // शब्दादिषु यथा लोकश्चित्रावस्थः प्रवर्तते / तद्वत् तमात्मप्रत्यक्षं त्याज्यमित्युभयो नयः // 17 // घृणाऽनुकम्पापारुष्यं कार्पण्यं परिशुद्धये / व्रतोपव्रतयुक्तस्तु स्मृतिस्थैर्योपपत्तये // 18 // उपधानविधिश्चित्रशेषाशयविशोधनः / न्याय्यो वातादिवैषम्यविशेषौषधकल्पवत् // 19 // न विधिः प्रतिषेधो वा कुशलस्य प्रवर्तितुम् / तदेव वृत्तमात्मस्थं यत् कषायपरिपक्तये // 20 // न दोषदर्शनाच्छुद्धं वैराग्यं विषयात्मसु / मृदुप्रवृत्युपायोऽयं तत्त्वज्ञानं परं हितम् // 21 // श्रद्धावान् विदितापायः परिक्रान्तपरीषहः / भव्यो गुरुभिरादिष्टो योगाचारमुपाचरेत् // 22 // . शुचौ निष्कण्टके देशे समप्राणवपुर्मनाः / स्वस्तिकाद्यासनजयं कुर्यादेकाग्रसिद्धये // 23 //