________________ "सिद्धसमदिवाकरप्रणीता वीरोत्तरं परमशक्यमवेत्य कार्य क्षेपं प्रमोहविकथासु परः प्रयत्नः / अन्यो हि धीरितकथाविधुरस्य शब्दः संदिग्धतुल्यगुण-दोषपथस्य चान्यः // 18 // शिष्येषु वाक्यखनयः प्रतिबोधनीयाः सिद्धिस्तथाहि नियता नयवाददोषान् / अभ्युद्गतस्य हि कथाविषमाहिराहि तेजः सकृत् प्रतिहतं च न चाऽस्ति भूयः // 19 // सिद्धचन्तरं न महतः परिभूय वादान् __ स्यादर्जितस्तु विजयोऽपवाद एव / तस्मान्न वादगहनान्यभिलक्षितस्य युक्तं विगाहितुमनुत्रसतः परेभ्यः // 20 // आम्नायमार्गसुकुमारकृताभियोगा क्रूरोत्तरैरभिहतस्य विलीयते धीः / नीराजितस्य तु सभाभटसङ्कटेषु शुद्धप्रहारविधुरा रिपवः स्वपन्ति // 21 // ग्रन्थाभिचारनिपुणे बहु न प्रयोज्यं मत्वा विशेज्जनमनांसि सतामतीव / आशङ्कितानपि दिशः पुरुषस्य यातुः कीय॑क्षमान् परिहरेदिति तत्प्रसक्तः // 22 // एकान्वयोत्तरगतिः परिदृष्टपन्थाः . प्रत्याहतश्च चतुरस्रमपाहतश्च / .....