________________ 72 महाकविश्रीरामचन्द्रसूरिविरचितं क्षेमङ्करी-सिद्धाहिवदिणो पसादेण / (पुनः सविनयम् ) ऐदं विनवेदि कुन्दलता-अत्थि अम्हाणं आसमे मंतिओ अदिधी, सो मंतेण तंतेण य पहारवेयणं पडिहणेदि। सिद्धाधिनाथ:- मत्रविस्तरं विधापयितुं वयमिदानीमनोजस्विनः, तत्रप्रयोगं यदि करोति तदा कुरुताम् / (क्षेमङ्करी निष्क्रान्ता / ) सिद्धाधिनाथः-(सविषादम् ) अहो! वैचित्र्यं कालस्य, प्रहारवेदनामुपशमयितुं वयमपि साम्प्रतमपरस्य मुखमीक्षामहे / / (पुनः स्मृत्वा) अनुजग्राह नस्तत्र स्वक्लेशमुपगम्य यः। निसर्गसुहृदस्तस्य वणिजः किं विदध्महे ? // 1 // ___ (पुनः सविषादम् ) परस्मादुपकारो यः सोऽपि व्रीडावहः सताम् / तस्याप्रत्युपकारस्तु दुनोत्यन्तः पशूनपि // 2 // (नेपथ्ये) परिमलभृतो वाताः, शाखा नवाकुरकोटयो, मधुरविरुतोत्कण्ठाभाजः प्रियाः पिकपक्षिणाम्। विरलविरलखेदोद्वारा वधूवदनेन्दवः, प्रसरति मधौ धात्र्यां जातो न कस्य गुणोदयः 1 // 3 // सुघण्ट:-देव! शुभोदक मागधः पठितवान् / / सिद्धाधिनाथ:- अद्य केनाप्यचिन्त्येन हेतुनाऽस्माकं मानसमपि प्रवर्द्धमानोत्साहम् / (पुनर्नन्दिघोषं प्रति) समादिश कामपरिचारकं ब्रह्मलयम् / यथा-वयमद्य निशीथे स्वयं बलिकर्म विधास्यामः / ततो भगवतः पञ्चबाणस्य पूजाविशेषः कोऽपि विपश्चनीयः। (नन्दिघोषो निष्क्रान्तः / ) (प्रविश्य ) क्षेमङ्करी-ऐदिणा तंतेण उवलिंपेदु पहारवणं सिद्धाहिवई / 1) सिद्धाधिपतेः प्रसादेन / एतद् विज्ञपयति कुन्दलता - अस्ति अस्माकमाश्रमे मान्त्रिकोऽतिथिः, स मन्त्रेण तन्त्रेण च प्रहारवेदनां प्रतिहन्ति / 2) एतेन तन्त्रेणोपलिम्पतु प्रहारवणं सिद्धाधिपतिः / 1 एवं क। 2 अहो ? विपाकवैचित्र्यं क।