________________ वैभवम् / महाकविश्रीरामचन्द्रसूरिविरचित (प्रविश्य ) प्रतीहारः-देव ! देशान्तरतः समायातो नरदत्तः सार्थवाहो युवराजपादान् द्रष्टुमभिलषति / चारायणः-देव! क्रमागतविभूतिर्महानयं नरदत्तः सार्थवाहः, तदमुं महता गौरवेण देवो द्रष्टुमर्हति / युवराजः-(सादरम् ) त्वरिततरं प्रवेशय / (ततः प्रविशति उपायनीकृतरत्नभृतभाजनहस्तेन पुरुषेणानुगम्यमानो नरदत्तः / ) (नरदत्त उपायनभाजनमुपनीय प्रणमति / ) युवराजः-(ससम्भ्रमम् ) क्षेमं यात्रिकाः! समायाताः स्थ? / निरुपद्रवः सर्वोऽपि सार्थलोकः ?! नरदत्तः-देवस्य विक्रमबाहोर्युवराजस्य च लक्ष्मीपतेः प्रभावेन / चारायणः-देव! वेलन्धरमशेषमपि नरदत्तस्य यानपात्रयातायातैः समृद्धयुवराजः-वेलन्धराभ्यर्णमशेषोऽपि सार्थः प्रविष्टः 1 / चारायणः -देव ! सार्थस्य कियानपि विष्कम्भोऽस्ति / (पुनर्नरदत्तं प्रति ) विज्ञपय यथार्थ विष्कम्भस्वरूपं देवाय / ___ नरदत्तः-( सविनयम् ) देव ! सुवर्णद्वीपात् प्रतिनिवृत्तस्य ममैका पटच्चरवृत्तिर्वणिक्पुत्रः सङ्घटितः। स च मया क्रयकौशलानुरञ्जितेन खसार्थे प्रधानः कृतः / स चेदानीं 'मदीयोऽयं सार्थः, न ते किमपि लभ्यमस्ति' इति व्याहरति / युवराजः- अहो! अराजन्वती वसुमती / (पुनर्विमृश्य ) अमात्य ! नैकस्य संलापश्रवणेन निर्णयः कत्तुं शक्यते, अतो द्वितीयमपि पृच्छामि / * चारायणः-कोत्र भोः! अस्मत्परिजनेषु / (प्रविश्य ) देवशर्मा-एषोऽस्मि / (चारायणः कर्णे एवमेव / ) ( देवशर्मा निष्क्रान्तः / ) (ततः प्रविशति मकरन्दो देवशर्मा च / ) मकरन्दः -(सविषादमात्मगतम्) विच्छेदः पितृ-बान्धवैः, प्रवहणस्योदन्वति भ्रंशनं, प्राणेभ्योऽप्यधिकं प्रियेण विरहो मित्रेण पुण्यात्मना / कान्ताया नवसङ्गमेऽप्यपहृतिः, सर्वखनाशोऽधुना, * नव्यं नव्यमुदेति कन्दलमहो! प्रातीपिके वेधसि // 4 //