________________ महाकविश्रीरामचन्द्रसूरिविरचितं (पुरुषो निष्क्रान्तः / ) मकरन्दः- ( सभयमात्मगतम् ) ममापि कौमुदी-सुमित्रे पातालभवनमधिवासयितुमुचिते। कापालिक:- अद्य पुनर्निशीथसमये मत्रेण तत्रेण च तं दुरात्मानमाकृष्य मोचयिष्यामि निःशेषमप्यपहृतं यौवतम् / ( पुनर्विमृश्य ) कोज भोः!? / (प्रविश्य ) तापसः- एषोऽस्मि / कापालिकः-मायामय ! आकारय कियतीरपि युवतीर्येनेयं ताभिर्विदितमार्गाभिः सह पातालवेश्मनि प्रविशति / (तापसो निष्क्रान्तः / ) (ततः प्रविशन्ति पातालभवनादागमनं नाटयन्त्यः पञ्चषा योषितः / ) ( योषितः कापालिकं प्रणम्य कौमुदी-सुमित्रयोः पादौ संस्पृशन्ति / ) कापालिक:- ( युवतीं प्रति ) व्रज पातालभवनमेताभिः सह / मकरन्दः-भगवन् ! एते अपि कौमुदी-सुमित्रे यामद्वयं पातालगृहमधितिष्ठताम् / कापालिकः-( खगतम् ) प्रियं नः / (प्रकाशं ) यद् भवते रोचते तदस्तु। . (सर्वाः पातालभवनप्रवेशं नाटयन्ति / ) कापालिक:-(विमृश्य ) सार्थवाह ! इदानीं विद्याधराकर्षणहोमसमयः, ततस्त्वया क्रियमाणं साहायकं किमपि मृगयामहे / / मकरन्दः- प्रकृत्यैवाहमकुतोभयः, ततः खैरमादिशत यूयम् / कापालिक:-त्वया समाकृष्टकरालकरवालेन निष्कम्पमनसा होमशबस्य पुरतः स्थातव्यम् / होममण्डले च नापरस्य मत्रस्य वा दैवतस्य वा कस्यापि प्रवेशः समुचित इति न त्वया प्रतिभयाकुलेन मनसि किमपि ध्यातव्यम् / मकरन्दः-एवं करिष्यामि / (प्रविश्य ) मायामयः - भगवन् ! सर्व प्रगुणमेव पूजोपकरणम् / तदागच्छत होमवेदिकाम्। (सर्वे परिकामन्ति / ) मायामयः 1°लभुवमेख।