________________ [ // अथ अष्टमोऽङ्कः॥] (ततः प्रविशति मकरन्दः कौमुदी सुमित्रा च / ) मकरन्दः-(विमृश्य ) कोज भोः! / (प्रविश्य ) 'पुरुषः- 'एशे चिष्टामि / आदिशेदु शस्तवाहे / मकरन्दः-अरे मागध ! इदानीं परिणतवया वर्तते दिवसः, ततो ब्रूहि गत्वा नरदत्तम् / यथा-यावद् वयमेकचक्राया नगर्याश्चैत्य-प्रासाद-प्राकारा-ऽऽरामरामणीयकं कौमुदी-सुमित्रयोरादर्शयामस्तावत् त्वया सार्थरक्षायां प्रयत्नो विधेयः, स्थविरश्च शम्बलं किमपि दत्त्वा रङ्गशालां प्रति प्रतिनिवर्तनीयः। जात जातानपनापा ..... .. . . . - (मागधो निष्क्रान्तः / ) मकरन्दः-(विमृश्य ) आर्ये कौमुदि ! कुलक्रमेणैवायं वज्रवर्मा शबरः, पवित्रेण चरित्रेण पुनः साधूनप्यतिशेते / इयन्तं हि द्रविणसमूहमुपनतं परित्यक्तुं साधवोऽपि तपखिना, किमुत परजीवितापहारिणः पक्कणचारिणः / द्रविणं मुश्चमानश्च हस्तमोचनपर्वणि / औचिती निष्णबुद्धित्वमात्मनः प्रथयत्ययम् // 1 // (विमृश्य ) प्रिये सुमित्रे ! मातरं भ्रातरं च ते खनगरं प्रति प्रस्थापयन् वज्रवर्मा परं पुण्यमर्जितवान् / कौमुदी-सहि सुमित्ते! कत्थ ते पिउहरं / / सुमित्रा-अलयउरनिवासिणो धणदेवस्स सत्थवाहस्स अहं धूआ विजयवम्मणा बदिग्गाहेण आणीदा। मकरन्दः-(पुरोऽवलोक्य साशङ्कम् ) चैत्यानि ध्वजचुम्बिताम्बरतलान्यश्वेभमुच्छृङ्खलं, __ हाण्यद्भुतवैभवानि, विपणिः पण्यैरगण्यैर्घना / सञ्चारस्तु न चत्वरे न च गृहे स्त्रैणस्य पौलस्य च, शङ्का-त्रास-वितर्क-विस्मयकरः कोऽयं प्रकारः पुरः? // 2 // कौमुदी-( सभयविस्मयम् ) अँज मयांद! ता किं नयरस्स मज्झं न पेक्खिदव्वं / 1) एष तिहामि / आदिशतु सार्थवाहः / 2) सखि सुमित्रे ! कुत्र ते पितृगृहम् / 3) अचलपुरनिवासिनो धनदेवस्य सार्थवाहस्याहं पुत्री विजयवर्मणा बन्दिग्राहेणाऽऽनीता। 4) आर्य मकरन्द ! तावत् किं नगरस्य मध्यं न प्रेक्षितव्यम् / 1 एसो चिष्टामि / आदिशेदु सत्थवाहेक।